वाचस्पत्यम्
भास्वर || त्रि० भास—वरच् । १ दीप्तियुक्ते २ सूर्य्ये ३ अग्नौ मेदि० ४ दिने ५ अर्कवृक्षे च पु० । ६ कुष्ठौषधे (कुड) न० राजनि० ७ स्कन्दानुचरभेदे पु० भा० श० ४६ अ० ।
शब्दकल्पद्रुमः
भास्वरं || क्ली (भासते इति । भास् + “स्थेश भासपिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।)
कुष्ठौषधम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
भास्वरः || पुं, (भासते इति । भास् + “स्थेशभास- पिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।)
दिनम् । इति राजनिर्घण्टः ॥ सूर्य्यः । इति केचित् । दीप्तियुक्ते, त्रि । इति मुग्धबोध- व्याकरणम् ॥ (यथा, महाभारते । १ । ११ । ११ । “स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा । स्वं रूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥” सूर्य्यस्यानुचरविशेषः । स च भगवता सूर्य्येण तारकासुरवधसाहाय्यार्थं स्कन्दाय दत्तः । यथा, महाभारते । ९ । ४५ । ३० । “सुभ्राजो भास्वरश्चैव यौ तौ सूर्य्यानुयायिनौ । तौ सूर्य्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥”)