वाचस्पत्यम्
भिक्ष || लोभे लाभायोक्तौ सक० याचने द्विक० क्लेशे अक० भ्वा० आत्म० सेट् । भिक्षते अभिक्षिष्ट विभिक्षे ।
शब्दकल्पद्रुमः
भिक्ष || ङ लाभार्थलोभोक्तिक्लिशि । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-याचने द्विक०-लाभे लोभोक्तौ च सक०-क्लिशि अक०-सेट् ।)
अर्थो याचनम् । लोभादुक्तिर्लोभोक्तिः । ङ, भिक्षते भूमिं नृपात् पण्डितः । लभत इत्यर्थः । भिक्षते दातारं धनं भिक्षुः । याचत इत्यर्थः । भिक्षते दातारं दीनः । लोभाद्वदतीत्यर्थः । भिक्षते जनः । क्लिश्यतीत्यर्थः । इति दुर्गादासः ॥