वाचस्पत्यम्
भिक्षा || स्त्री भिक्ष—अ । १ याच्ञायाम् अमरः । २ सेवायां ३ भृतौ च मेदि० । उपचारात् ४ भिक्षिते वस्तुनि । तत्र ब्रह्मचारिभिक्षाप्रकारः ब्रह्मचर्य्यशब्दे ४५९६ पृ० उक्तः । तस्या दानावश्यकत्वम् प्रमाणं च आ० त० मार्कपु० उक्तं यथा “भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा । अदत्त्वा नैव भोक्तव्यं यथाविभवमात्मनः । ग्रासप्रदा- नाद्भिक्षा स्यात् अग्रं ग्रासचतुष्टयम् । अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः” । ग्रासं पलमात्रमिति नव्य वर्द्धमानः” । भिक्षाया दानपात्राणि उक्तानि विष्णुपु० “दद्याच्च भिक्षात्रितयं परिव्राट ब्रह्मचारिणाम् । स्वे- च्छया तु नरो दद्यात् विभवे सत्यवारितम् । इत्येते- ऽतिथयः प्रोक्ताः संप्राप्ता भिक्षुकाश्च ये । चतुरः पूजय- न्नेतान् नृयज्ञर्णात् प्रमुच्यते” । चकारः पूर्वोक्तातिथि- भोजनेन समुच्चयार्थः । सन्यासिभिक्षादाने तु “यति- हस्ते जलं दद्यात् भैक्ष्यं दद्यात् पुनर्जलम् । तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम्” । विष्णुधर्मोत्तरे “चाण्डालो वाथ पापो वा शत्रुर्वा पितृघातकः । देश- कालात्ययगतो मरणीयो मतो मम” विष्णुपु० । “व्या- घितस्यान्नहीनस्य कुटुम्बात् प्रच्युतस्य च । अध्वानं वा प्रपन्नस्य भिक्षाचर्य्यं विधीयते” । अत्र भिक्षाद्यदाने भो- जननिषेधात् मनुष्ययज्ञस्य नित्यत्वाच्च अतिथिप्राप्तेरनित्य- त्वात् यज्ञसिद्धये ब्रह्मणमात्राय भिक्षादिदानमावश्यकम् । अतएव बौधायनः “अहरहर्ब्राह्मणेभ्योऽन्नं दद्यात् आमूलफलशाकेभ्यः अथैवं मनुष्ययज्ञसमाप्नोति” । विष्णुः भिक्षुकाभावे चाग्रं गोभ्यो दद्यात् अग्नौ वा क्षिपेत्” ।
शब्दकल्पद्रुमः
भिक्षा || स्त्री (भिक्ष याचनादौ + “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः । ततष्टाप् ।)
लोभ- याचनम् । चाओया इति मागा इति च भाषा । तत्पर्य्यायः । याच्ञा २ अर्थना ३ अर्द्दना ४ । इत्यमरः । ३ । २ । ६ ॥ प्रार्थनम् ५ याचना ६ । इति शब्दरत्नावली ॥ (तदुक्तम् । “बाणिज्ये वसते लक्ष्मीस्तदर्द्धं कृषिकर्म्मणि । तदर्द्धं राजसेवायां भिक्षायां नैव नैव च ॥”)
सेवा । भृतिः । इति नानार्थे अमरः ॥ भिक्षितवस्तु । इति मेदिनी ॥ (सा च ग्रास- प्रमाणा । ग्रासमात्रा भवेद्भिक्षेति शातातप- वचनात् ॥ यथा, मनुः । ३ । ९४ । “कृत्वैतद्बलिकर्म्मैवमतिथिं पूर्ब्बमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्बिधिवद् ब्रह्मचारिणे ॥”)
उपनीतस्य भिक्षाविधिर्यथा, —
“भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो- ऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥ भवत्पूर्ब्बञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ सजातीयगृहेष्वेव सार्व्ववर्णिकमेव वा । भैक्षस्याचरणं प्रोक्तं पतितादिविवर्जितम् ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्जयेत् ॥ सर्व्वद्वारि चरेद्भैक्षं पूब्बोक्तानामसम्भवे । नियम्य प्रयतो वाचं दिशन्त्वनवलोकयन् ॥ समाहृत्य तु तद्भैक्षं यावदर्थममायया । भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥” इति कूर्म्मपुराणे उपविभागे १२ अध्यायः ॥ * ॥
सायं प्रातर्भिंक्षाटनाभावो यथा, —
“कारयित्वा तु कर्म्माणि कारुम्पश्चान्न वञ्चयेत् । सायं प्रातर्गहद्वारान् भिक्षार्थं नावघट्टयेत् ॥” इति तत्रैव १५ अध्यायः ॥ * ॥
सा त्रिविधा यथा, —
“हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वैतं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रन्तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारान्तं तच्चतुर्गुणमुच्यत ॥ गोदोहमात्रं कालं वै प्रतीक्षेदतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ भिक्षां वै भिक्षवे दद्याद्बिधिवद्ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् ॥” इति तत्रैव १७ अध्यायः ॥