वाचस्पत्यम्
भिक्षाशिन् || त्रि० भिक्षालब्धमश्नाति अश—णिनि । भिक्षा- लब्धीपजीविनि । “भिक्षाशी विचरेत् ग्रामम्” स्मृतिः ।
शब्दकल्पद्रुमः
भिक्षाशी || [न्] त्रि, (भिक्षां अश्नातीति । अश + णिनिः ।)
भिक्षुकः । इत्युणादिकोषः ॥ यथा, —
“भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति ॥” इति प्रायश्चित्तविवेकः ॥