वाचस्पत्यम्
भिक्षुसंघाटी || स्त्री भिक्षुं संघटते प्राप्नोति सम् + चट्—अणुप० स० । धीवरे हेमच० ।
शब्दकल्पद्रुमः
भिक्षुसंघाटी || स्त्री (भिक्षुं संघटते इति । भिक्षु + सम् + घट + अण् । गौरादित्वात् ङीष् ।)
चीवरम् । इति हेमचन्द्रः ॥ यथा, सुश्रुते उत्तरतन्त्रे ३३ अध्याये । “पुरीषं कौक्कुटं केशांश्चर्म्मसर्पत्वचन्तथा । जीर्णञ्च भिक्षुसं घाटीं धूपनायोपकल्पयेत् ॥”)