वाचस्पत्यम्
भिद्र || न० भिद—रक् । वज्रे त्रिका० ।
शब्दकल्पद्रुमः
भिद्रः || पुं, क्ली, (भिनत्तीति । भिद् “स्फायितञ्चि वञ्चिशकिक्षयिक्षुदिसृपितृपीति ॥” उणा० ३ । १३ । इति रक् ।) वज्रम् । इति त्रिकाण्डशेषः उणादिकोषश्च ॥