वाचस्पत्यम्
भिन्दिपाल || पु० मिदि विदारणे रन् भिन्दिं भेदनं पाल- यति पालि—अण् । १ हस्तक्षेप्ये नातिकास्न्ने अमर- टीकायां मरतः । हस्तप्रमाणे अस्त्रभेदे क्षीरस्वामी । हमा० प० तल्लक्षणमन्यथोक्तं यथा “भिन्दिपालस्य लक्षणं प्रोच्यते तस्य य आयामी यत्प्रमाणं दण्डस्य च यः परिणाहो यतसंस्थानं द्रव्यादिप्रमाणं ग्रहणमोक्षौ दष्टादुष्टाश्च गतयस्तत्सर्वं यथोक्तं वक्ष्यामि वत्स! नि- बोध । तत्र भिन्दिपालस्य दण्डः फलाचितः सप्तहस्तो ज्येष्ठो भवति द्वादशाङ्गलहीनी मध्यमो वितस्तिहीनस्तु कनिष्ठो मानतः स्याद्दण्डश्च सप्ताङ्गुलपरिणाहः श्रेष्ठो भ- वति मृध्यमो द्व्यङ्गुलहीनस्त्र्यङ्गुलहीनश्च कनिष्ठो भवति मूले परीणाहो ग्राह्यः स च गोपुच्छवत् वेदितव्यो दण्डार्थ पुनः कूटजदृक्षजं वैणवं भद्रसिंहव्यं कदम्बकं वा दारु- मयं वा कारयेत तन्मया हि दण्डा दृढाः स्युः काला- कुलोत्सादकारिणह् कल्मषा विवर्द्धयन्ति चतुस्त्रिंश- दवका अवनोदकारकानमोन्नमनसहा पूर्बभारपरी- क्षमाश्च भवन्ति ते नित्यं दण्ठेषु कुशलैः शुभलक्षणा विज्ञेया दण्डस्योपरि पत्रं कर्णिकासंस्थानां प्रयोजयेत् क- र्णिका च द्व्यङ्गुलोत्सेधा षडङ्गुला च लेख्या स्यात् यथा दण्डपरीणाहं बलित्थां कारयेत् सौवर्णं रजतमयं वा कांस्यं वा ताम्रं वा लौहमयं शार्ङ्गजातमस्थिजं योजयेत् तदालाभे तु वैक्षवं दृढं वा विदध्यात् भिन्दि- पालफलन्तु विंशत्यङ्गुलप्रमाणं भवति मिस्त्रिंशसदृशम् पीतं सुनिशितधारमुत्तमं कुर्वीत अष्टादशाङ्गलप्रमाणं मध्यं षोडशाङ्गुलप्रमाणं नीचं निर्दिष्टं तत्र यावत्यः फलपत्र- पुष्पाणां योनयो दृश्यन्ते तावत्यो भिन्दिपालफलकाः, कर्तव्या तथा विस्तारे त्र्यङ्गुलमूले वोच्छकसहबद्धोर्द्धमष्टा- ङ्गुलं दण्डसूत्रेणाववेष्टयेत् पूर्वभागे मध्यान्तादिपात्रै- रित्युत्तमाधममध्यमानां भवेत् दण्डस्य प्रमाणद्विगुणं फलं तस्य गौरवात् भवति तत्राष्टदशाङ्गुलं भिन्दिपालफलाग्रम् ऋजु कार्य्यं पञ्चभिः पञ्चभिः पलैर्बर्द्धिततया वच्छत- पलं श्रेष्ठं पलाग्रेण शतिकः उत्तमः कर्त्तव्यः अशीति- पलोमध्यमः षष्टिपालो नीचः” ।
शब्दकल्पद्रुमः
भिन्दिपालः || पुं, (भिदि + इन् । भिन्दिं विदारणं पालयतोति पालि + अण् ।)
हस्तप्रमाण- काण्डः । नालिकास्त्रमिति ख्यातम् । इति भरतः ॥ हस्तक्षेप्यलगुडः । इति स्वामी ॥ तत्पर्य्यायः । सृगः २ । इत्यमरः । २ । ८ । ९१ ॥ (यथा, वैशम्पायनसंहितायाम् । ३ । “भिन्दिपालस्तु वक्राङ्गो नम्रशीर्षो बृहच्छिराः । हस्तमात्रोत्सेधयुक्तः करसम्मितमण्डलः ॥” भिण्डिबालः भिन्दिवालश्चापि इत्येवं पाठद्वयं दृश्यते ।)