वाचस्पत्यम्
भिन्नकूट || न० कामन्द० उक्ते वलव्यसनभेदे । तत्र च बल- व्यसनं नानाबिधमुक्तं यथा “उपरुद्धं परिक्षिप्तं विमानि- तममानितम् । अमतं व्यधितं श्रान्तं दूरायातं नवाग- तम् । परिक्षीणाग्ररहितं प्रहताग्रजवं तथा । आशा- निर्वेदभूयिष्ठमनृतप्राप्तमेव च । कलत्रगर्भं विक्षिप्त- मन्तःशल्यं तथैव च । भिन्नगर्भं ह्यपसृतमभियुक्तं तथैव च । क्रुद्धमौलाविमिश्रञ्च विशिष्टञ्चापि वि- द्विषा । दूथयुक्तं स्वविक्षिप्तं मित्रविक्षिप्तमेव च । विच्छिन्नविविधासारं शून्यमूलं तथैव च । अस्वामि- सङ्गतञ्चापि भिन्नकूटं तथैव च । दुष्पार्ष्णिग्रहमन्धञ्च बलव्यसनमुच्यते” । भिन्नगर्भमप्यत्र ।