वाचस्पत्यम्
भिल्ल || पु० भिल—लक् । म्लेच्छजातिभेदे । (भिल) स च ब्राह्मणकन्यायां तीवराज्जातः । “पुलिन्दमेदभिन्नाश्च” इत्युपक्रमे “एते वै तीवराज्जाताः कन्यायां ब्रह्म- णस्य च” पराशरपद्धतिः ।
शब्दकल्पद्रुमः
भिल्ल || पुं, (भेलयति भिलत्तीति वा । भिल् + बाहुलकात् । लक् ।)
म्लेच्छजातिविशेषः । भील इति भाषा । यथा, हेमचन्द्रे । “माला भिल्लाः किराताश्च सर्व्वऽपि म्लेच्छ- जातयः ॥” अपि च । “रजकश्चर्म्मकारश्च नटो वरुड एव च । कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥” इति प्रायश्चित्ततत्त्वम् ॥ स च ब्राह्मणकन्यायां तीवराज्जातः । यथा, —
“पुलिन्दमेदभिल्लाश्च पुल्लो मल्लश्च धावकः । कुन्दकारो डोखलो वा मृतपो हस्तिपस्तथा । एते वै तीवराज्जाताः कन्यायां ब्राह्मणस्य च ॥” इति पराशरपद्धतिः ॥