शब्दकल्पद्रुमः
भिस्सा || स्त्री (बभस्तीति । भस दीप्तौ + बाहुल- कात् सः । छन्दसि बहुलमितीत्वम् । ब्राह्मण- भिस्सेति भाष्यप्रयोगाल्लोकेऽपि । यद्बा, भेदन- मिति भित् । भिद् + क्विप् । भिदं स्यतीति । सो + “आतोऽनुपसर्गे कः ।” इति कः । पृषो- दरादित्वात् साधुः ।)
अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ (अस्याः पर्य्यायो यथा, —
“भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्सादीदिविः पुंसि- भाषितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)