वाचस्पत्यम्
भी || भये अक० भरणे सक० क्य्रादि० वा वा० पर० अनिट भीनाति मिनाति । अभैषीत् ।
वाचस्पत्यम्
भी || भवे जु० पर० अक० अनिट् । विभेति अभैषीत् बिभयामब० भूव आस चकार बिभाय । भीरुः भीतः । एतद्योगे “भीत्रा- र्थानां भयहेतुः” पा० भयहेतोरपादानता । व्याघ्रात् भीत ।
वाचस्पत्यम्
भी || स्त्री भी—सम्प० क्विप् । भये अमरः ।
शब्दकल्पद्रुमः
भी || ग गि भृत्याञ्च । इति कविकल्पद्रुमः ॥ (क्र्या० -पर० सक०-अनिट् ।)
ग, भीनाति । गि, भिनाति । भीनः भीनिः । गिनैव क्र्यादित्वसिद्धौ ग्रग्रहणं प्वादित्वविकल्पार्थं चकारात् भीत्याञ्च । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भी || ञि लि भीत्याम् । इति कविकल्पद्रुमः ॥ (ह्वा०-पर०-अक०-अनिट् ।)
ञि, भीतोऽस्ति । लि, बिभेति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भीः || स्त्री (भी भीत्याम् + सम्पदादित्वात् क्विप् ।)
भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा, आर्य्यासप्तशत्याम् । ३८७ । “पूर्ब्बाधिको गृहिण्याम् बहुमानः प्रेमनर्म्म- विश्वासः । भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥”)