वाचस्पत्यम्
भीति || स्त्री भी—क्तिन् । १ भये अमरः । २ कम्पे च त्रिका० ।
शब्दकल्पद्रुमः
भीतिः || स्त्री (भी + क्तिन् ।)
भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा, मार्कण्डेये । ८४ । १६ । “दुर्गे ! स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥”)
कम्पः । इति विश्वः ॥