वाचस्पत्यम्
भीम || त्रि० बिभेत्यस्मात् भी—अपादाने मक् । १ भयहेतौ २ भयानकरसे अमरः । ३ महादेवे ४ भीमसेने ५ अम्ल- वेतसे च पु० मेदि० । ६ परमेश्वरे पु० तस्य “भीषास्माद्वातः परते” इत्यादिश्रुतेः सर्वेषां मयहेतुत्वात् तथात्वम् । महादेवस्याष्टमूर्त्तिभध्ये आकाशरूपे ७ मूर्त्तिभेदे ८ देवगन्धर्वभेदे भा० आ० ६५ अ० । आङ्गिरसे वह्नि- भेदे भा० व० २१९ अ० । १० दानवभेदे भा० श० २२७ अ० । ११ अमावसुवंश्ये नृपभेदे हरिवं० २७ अ० । सात्त्वतवंश्ये १२ नृपभेदे हरिवं० ९५ अ० । १३ विदर्भाधीशे नृपभेदे दमयन्तीपितरि तत्कथा भा० व० ५१ अ० । १४ अष्टादशाक्षरमन्त्रभेदे “आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः । ज्ञातव्यो भीम इत्येष यः स्यादष्टादशाक्षरः” तन्त्रसा० ।
शब्दकल्पद्रुमः
भीमं || त्रि (बिभेत्यस्मादिति । भी + “भियः षुग्वा ।” उणा० १ । १४७ । बिभेतेर्मक् धातोर्वा षुगागमश्च । इति मक् ।)
भयहेतुः । तत्- पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भयानकम् ७ भयङ्करम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ (यथा, रघुः । १ । १६ । “भीमकान्तैर्नृ पगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥”)
शब्दकल्पद्रुमः
भीमः || पुं, (बिभेत्यस्मादिति । भी + मक् ।)
भया- नकरसः । यथा, —
“भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥” इत्यमरटीकायां भरतः ॥ शिवः । (यथा, मार्कण्डेये । ५२ । ७ । “भवं सर्व्वं तथेशानं तथा पशुपतिं प्रभुः । भीममुग्रं महादेवमुवाच स पितामहः ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “अतुलः शरभो भीमः समयज्ञो हविर्हरिः ॥”)
मध्यमपाण्डवः । (यथा, महाभारते । १ । १२३ । १३ । “तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥” अस्य विवरणादिकं भीमसेनशब्दे द्रष्टव्यम् ॥)
अम्लवेतसः । इति मेदिनी । मे, २१ ॥ महादेव- स्याष्टमूर्त्त्यन्तर्गताकाशमूर्त्तिः । यथा । भीमाय आकाशमूर्त्तये नमः । इति तिथ्यादितत्त्वे शिवपूजाप्रयोगः ॥ (गन्धर्व्वविशेषः । यथा, महाभारते । १ । ६५ । ४३ । “भीमश्चित्ररथश्चैव विख्यातः सर्व्वविद्बशी ॥” पुरुवंशीयस्य ईलिनस्य पुत्त्रः । यथा, तत्रैव । १ । ९४ । १८ । “ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् । दुष्मन्तं शूरभीमौ च प्रवसुं वसुमेव च ॥”)