वाचस्पत्यम्
भीमनाद || पु० ६ ब० । १ सिंहे शब्दच० । कर्म० । २ भमानकशब्दे पु०
शब्दकल्पद्रुमः
भीमनादः || पुं, (भीमो भैरवो नादो यस्य ।)
सिंहः । इति शब्दचन्द्रिका ॥ (भीमो नादः शब्दः । इति विग्रहे भयानकशब्दः । यथा, चातकाष्टके । १ । “वातैर्विधूनय विभीषय भीमनादैः सञ्चूर्णय त्वमथवा करकाभिघातैः । त्वद्वारिबिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद ! चातकस्य ॥” भयानकशब्दविशिष्टे, त्रि । यथा, महाभारते । १ । १५६ । ३१ । “भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महा- रवम् ॥”)