संस्कृत-शब्दकोशः

भीमयु भीमरथी

भीमरथ

वाचस्पत्यम्

भीमरथ ||‍ पु० १ अमुरभेदे गरुडपु० ८६ अ० । २ धृतराष्ट्रपुत्रभेदे भा० आ० ६७ अ० । ३ धन्वन्तरिवंश्ये नृपभेदे हरिवं० २९ अ० । ४ दशार्हवंश्ये नृपभेदे हरिवं ३७ अ० । सत्यभामायां जाते वासुदेवस्य ५ पुत्रभेदे हरिवं १६२ अ० ।


शब्दकल्पद्रुमः

भीमरथः || पुं, (भीमो भयानको रथोऽस्य ।)
तामसमनुवंशजातासुरविशेषः । स च कूर्म्म- रूपिणा हरिणा हतः । यथा, —
“हरिणा कूर्म्मरूपेण हतो भीमरथोऽसुरः ॥” इति गारुडे गयामाहात्म्ये ८६ अध्यायः ॥ (धृतराष्ट्रस्य पुत्त्रभेदः । यथा, महाभारते । १ । ११७ । ११ । “उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः ॥”)



Correction: