वाचस्पत्यम्
भीमरथी || स्त्री “सप्तसप्ततिमे वर्षे सप्तमे मासि सप्तमी । रात्रि र्भीमरथी नाम नराणामतिदुस्तरा” इत्युक्तायां १ रात्रौ । “तामतीत्य नरी योऽसौ दिनानि यानि जीवति । क्रतु भिस्तानि तुल्यानि सुवर्णशतदक्षिणैः । गतिः प्रदक्षिणं विष्णोर्जल्पनं मन्त्रभाषणम् । ध्यानं निद्रा सुधा चान्नं भीमरथ्याः फलश्रुतिः” वैद्यके । २ नदीभेदे भा० व० ८८ अ० ।
शब्दकल्पद्रुमः
भीमरथी || स्त्री जनानामवस्थाविशेषः । यथा, —
“सप्तसप्ततिके वर्षे सप्तमे मासि सप्तमी । रात्रिर्भीमरथी नाम नराणां दुरतिक्रमा ॥” इति शब्दमाला ॥ अपि च । “सप्तसप्ततिवर्षाणां सप्तमे मासि सप्तमी । रात्रिर्भीमरथी नाम नराणामतिदुस्तरा । तामतीत्य नरो योऽसौ दिनानि यानि जीवति ॥ क्रतुभिस्तानि तुल्यानि सुवर्णशतदक्षिणैः । गतिः प्रदक्षिणं विष्णोर्जल्पनं मन्त्रभाषणम् । ध्यानं निद्रा सुधा चान्नं भीमरथ्याः फलश्रुतिः ॥” इति वैद्यकम् ॥ नदीभेदः । यथा राजनिर्घण्टे । मलापहा भीमरथी च घट्टगा पथ्या च कृष्णा जलसाम्यगा गुणैः ॥” (इयं हि सह्यपर्व्वतोद्भवा । यथा, विष्णुपुराणे । २ । ३ । ११ । “गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥”)