वाचस्पत्यम्
भीमादेवी || स्त्री भीमाख्या देवी । दुर्गामूर्त्तिभेदे “पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले । रक्षांसि क्षपयिष्यामि मुनीनां त्राणकारणात् । तदा मां मुनयः सर्वेस्तोष्यन्त्यानम्रमू- र्त्तयः । भीमादेवीतिविख्यातं तन्मे नाम भविष्यति” देवीमा०
शब्दकल्पद्रुमः
भीमादेवी || स्त्री दुर्गा । यथा, —
“पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले । रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ॥ तदा मां मुनयः सर्व्वे स्तोष्यन्त्यानम्रमूर्त्तयः । भीमादेवीति विख्यातं तन्मे नाम भविष्यति ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥