संस्कृत-शब्दकोशः

भीमादेवी भीरु

भीमैकादशी

वाचस्पत्यम्

भीमैकादशी ||‍ स्त्री भीमेनोपास्या एकादशी शाक० त० । माघशुक्लैकादश्याम् । तत्कर्त्तव्यव्रतादिकं मत्स्यपु० ६५ अ० उक्तम् ।


शब्दकल्पद्रुमः

भीमैकादशी || स्त्री (भीमेनोपासिता एकादशी । शाकपार्थिवादिवत् समासः ।)
भैमी । सा च माघशुक्लैकादशी । भीमद्बादशीत्वेन ख्याता च । यथा, — मत्स्य उवाच । “पुरा रथन्तरे कल्पे परिपृष्टो महात्मना । मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥ ब्रह्मोवाच । कथमारोग्यमैश्वर्य्यमनन्तममरेश्वर ! । स्वल्पेन तपसा देव ! भवेन्मोक्षोऽथ वा नृणाम् ॥ किमज्ञातं मया देव ! त्वत्प्रसादादधोक्षज ! । स्वल्पकेनापि तपसा महत् फलमिहोच्यते ॥ मत्स्य उवाच । इति पृष्टः स विश्वात्मा ब्रह्मणा सोकभावनः । उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥ ईश्वर उवाच । अस्माद्रथन्तरात् कल्पात् त्रयोविंशतिमो यदा । वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे ॥ वैवस्वताख्ये संजाते सप्तमे सप्तलोकधृक् । द्वापराख्यं युगं तस्मिन् सप्तविंशतिमे तदा ॥ तस्यान्ते स महानीलो वासुदेवो जनार्द्दनः । भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥ द्वैपायनो मुनिस्तद्वद्रौहिणेयोऽथ केशवः । कंसादिदर्पमथनः केशवः शोकनाशनः ॥ पुरी द्वारवती नाम सांप्रतं वा कुशस्थली । दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः ॥ त्वष्टा ममाज्ञया ब्रह्मन् ! करिष्यति जगत्पतेः ॥ तस्यां कदाचिदासीनः सभायाममितद्युतिः । भार्य्याभिर्वृष्णिभिः सार्द्ध्वं भूभृद्भिर्भूरिदक्षिणैः ॥ कुरुभिर्देवगन्धर्व्वैरभितः कैटभार्द्दनः । प्रवृत्तासु पुराणीषु धर्म्मसम्बन्धिनीषु च ॥ कथासु भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्म्मस्य रहस्थस्यास्य भेदकृत् ॥ भविता स तदा ब्रह्मन् ! कर्त्ता चैव वृकोदरः । प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥ तस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥ अतीवान्नादशीलश्च नागायुतबलो महान् । भविष्यत्यजरः साक्षात् कन्दर्प इव बुद्धिमान् ॥ धार्म्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे । इमं व्रतमशेषाणां व्रतानामधिकं यतः ॥ कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः । अशेषयज्ञफलदमशेषाघविनाशनम् ॥ अशेषदुष्टशमनमशेषसुरपूजनम् ॥ पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् । भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥ वासुदेव उवाच । यद्यष्टमीचतुर्द्दश्यां द्वादशीष्वथ भारत ! । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥ ततः पुण्यामिमां भीम ! तिथिं पापप्रणा- शिनीम् । उपोष्य विधिनानेन गच्छेद्बिष्णोः परं पदम् ॥ माघमासस्य दशमी यदा शुक्ला भवेत्तदा । घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥ तथैव विष्णुमभ्यर्च्य नमो नारायणाय च । कृष्णाय पादौ संपूज्य शिरः सर्व्वात्मनेति च ॥ वैकुण्ठायेति वै कण्ठमुरः श्रीवत्सधारिणे । शङ्खिने चक्रिणे तद्वद्गदिने वरदाय वै ॥ सर्व्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् । दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै ॥ ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे । नमो नीलाय वै जङ्घे पादौ विश्वसृजे पुनः ॥ नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये । नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै तथा श्रियै ॥ नमो विहङ्गनाथाय वायुवेगाय पक्षिणे । विषप्रमाथिने नित्यं गरुडञ्चाभिपूजयेत् ॥ एवं संपूज्य गोविन्दमुमापतिविनायकौ । गन्धैमांल्यैस्तथा धूपैर्भक्षैर्नानाविधैस्तथा ॥ गव्येन पयसा सिद्धां कृशरामथ वाग्यतः । सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥ न्यग्रोधन्दन्तधावनमथवा खादिरं बुधः । गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः ॥ ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ । नमो नारायणायेति त्वामहं शरणं गतः ॥ एकादश्यां निराहारः समभ्यर्च्य च केशवम् । रात्रिञ्च सकलां स्थित्वा स्नानञ्च पयसापि च ॥ सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः । सहैव पुण्डरीकाक्ष ! द्वादश्यां क्षीरभोजनम् ॥ करिष्यामि यतात्माऽहं निर्विघ्नेनास्तु तच्च मे । एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः ॥ * ॥
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशाम्पते ! । स्नानं कृत्वा मृदा तद्वत् पाषण्डानभिवर्जयेत् ॥ उपास्य सन्ध्यां विधिवत् कृत्वा च पितृतर्पणम् । प्रणम्य च हृषीकेशममलञ्चाप्यनीश्वरम् ॥ गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः । दशहस्तमथाष्टौ वा करान् कुर्य्याद्बिशाम्पते ! ॥ चतुर्हस्तां शुभां कुर्य्याद्वेदीमरिनिसूदन ! । चतुर्हस्तप्रमाणञ्च विन्यसेत्तत्र तोरणम् ॥ आरोप्य कलसं तत्र दिक्पालान् पूजयेत्ततः । मासमात्रेण संपूर्णमधःकृष्णाजिने स्थितः ॥ तस्य धाराश्च शिरसा धारयेत् सकलां निशाम् । धाराभिर्भूरिभिर्भूरिफलं वेदविदो विदुः ॥ यस्मात्तस्मात् कुरुश्रेष्ठ ! धारा धार्य्याः स्वश- क्तितः । तथैव विष्णोः शिरसि क्षीरधाराः प्रपातयेत् ॥ अरत्निमात्रं कुण्डञ्च कृत्वा तत्र त्रिमेखलम् । योनिवक्त्रञ्च तं कृत्वा ब्राह्मणैर्यवसर्पिषी ॥ तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत्तदा । कृत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम् ॥ निष्पावार्द्धप्रमाणां षै धारामाज्यस्य पातयेत् ॥ जलकुम्भान् महावीर ! स्थापयित्वा त्रयोदश । भक्षैर्नानाषिधैर्युक्तान् सितवस्त्रैरलङ्कृतान् । युतानौडुम्बरैः पात्रैः पञ्चरँत्नसमन्वितान् ॥ चतुर्भिर्बह्वृचैर्होमस्तत्र कार्य्य उदङसुखैः । रुद्रजापश्चतुर्भिश्च यजुर्व्वेदपरायणैः ॥ वैष्णवानि च सामानि चतुरः सामवेदिनः । अरिष्टवर्द्धसहितान्यभितः परिपाठयेत् ॥ एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः । पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥ वासोभिः शयनीयैश्च वित्तशाट्यविवर्जितः । एवं क्षपातिवाह्या वै गीतमङ्गलनिस्वनैः । उपाध्यायस्य च पुनर्द्विगुणं सर्व्वमेव तु ॥ * ॥
ततः प्रभाते विमले समुत्थाय त्रयोदश । गा वै दद्यात् कुरुश्रेष्ठ ! सौवर्णमुखसंयुताः ॥ पयस्विनीः शीलवतीः कांस्यदोहनसंयुताः । रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः ॥ तांस्तु तेषां ततो भक्त्या भक्ष्यभोज्येन तर्पितान् । कृत्वाथ ब्राह्मणान् सर्व्वानन्नैर्नानाविधैस्तथा ॥ भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् ॥ अनुगम्य पदान्यष्टौ पुत्त्रभार्य्यासमन्वितः । प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥ शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः । यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥ एवमुच्चार्य्य तान् कुम्भान् गाश्चैव शयनानि च । वासांसि चैव सर्व्वेषां गृहाणि प्रापयेद्बुधः ॥ अभावे बहुशय्यानामेकामपि मुसंस्कृताम् । शय्यां दद्याद्गुरौ भीम ! सर्व्वोपस्करसंयुताम् ॥ इतिहासपुराणानि वाचयित्वातिवाहयेत् । तद्दिनं नरशार्दूल ! य इच्छेद्बिपुलां श्रियम् ॥ तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन ! विमत्सरः । कुरु व्रतमिदं सम्यक् स्नेहाद्यद्वाक्यमीरितम् । त्वया कृतमिदं वीर ! त्वन्नामाख्यं भविष्यति । सा भीमद्वादशी ह्येषा सर्व्वपापहरा शुभा । या तु कल्याणिनी नाम पुरा कल्पेषु पट्यते ॥” त्वमादिकर्त्ता भव शौकरेऽस्मिन् कल्पे महावीरवरप्रधान ! । यस्याः स्मरणकीर्त्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात् ॥ दृष्ट्वा च यामप्सरसामपीशा- वेश्याकृतामप्यभवान्तरेषु । आभीरकन्येति कुतूहलेन सैवोर्व्वशी संप्रति नाकपृष्ठे ॥ जातापि सा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी । तत्रापि तस्याः परिचारिकेयं मम प्रिया संप्रति सत्यभामा ॥ स्नातः पुरा मण्डलमेष तद्ब- त्तेजोमयं देवशरीरमाप । अस्याञ्च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः ॥ इदमेव कृतं महेन्द्रमुख्यै- र्वसुभिश्चैव पुरा सुरादिभिश्च । फलमत्र न शक्यतेऽभिवक्तुं यदि जिह्वाकोटयो मुखे स्युः ॥ कलिकल्मषविदारिणीमनन्ता- मिति कथयिष्यति यादवेन्द्रसूनुः । अपि नरकगतान् पितॄनशेषा- नलमुद्धर्त्तुमिहैव यः करोति ॥ य इदमनघं शृणोति चातिभक्त्या परिपठतीह परोपकारहेतोः । तिथिमिह सकलार्थभाङ्नरेन्द्र- स्तव चरणेन स साम्यतामुपैति ॥ कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेऽभिपूज्या । सा पाण्डुपुत्त्रेण कृता भविष्य- त्यनन्तपुण्यानघ ! भीमपूर्ब्बा ॥” इति मत्स्यपुराणे भविष्यद्व्रतोद्देशे भीम- द्वादशी नाम ६५ अध्यायः ॥



Correction: