संस्कृत-शब्दकोशः

भीरु भीरुकच्छ

भीरुक

वाचस्पत्यम्

भीरुक ||‍ पु० भी—क्रुकन् । १ शृगाले २ व्याघ्रे ३ इक्षुभेदे च । “वातपित्तप्रशमनो मधुरो रसपाकयोः । सुशीतो वृंहणो बल्यः पौण्ड्रकोभीरुकस्तथा” भावप्र० । ४ भययुक्ते त्रि० ।


शब्दकल्पद्रुमः

भीरुकं || क्ली (भीरु + संज्ञायां कन् ।)
वनम् । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

भीरुकः || त्रि (बिभेतीति । ञिभी भये + “भियः क्रुकन् ।” उणा० २ । ३१ । इति क्रुकन् ।)
भययुक्तः । इत्यमरः ॥ कातरः । इति संक्षिप्त- सारोणादिवृत्तिः ॥


शब्दकल्पद्रुमः

भीरुकः || पुं, (भीरु + स्वार्थे संज्ञायां वा कन् ।)
पेचकः । इति शब्दरत्नावली ॥ इक्षुभेदः । भोररी इति हिन्दीभाषा ॥ (यथा, सुश्रुते सूत्रस्थाने । ४५ अध्याये । “पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः । कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥”)
अस्य गुणाः । यथा, भावप्रकाशे । “वातपित्तप्रशमनो मधुरो रसपाकयोः । सुशीतो वृं हणो बल्यः पौण्ड्रको भीरुकस्तथा ॥”



Correction: