संस्कृत-शब्दकोशः

भीष्मपञ्चक भीष्मसू

भीष्मरत्न

वाचस्पत्यम्

भीष्मरत्न ||‍ हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे । तस्योत्पत्त्यादि यथा “सूत उवाच । “हिमवत्यु- त्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्त- मानामाकरतां भीष्मरत्नानाम् । शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पद सर्वदा लभते । प्रणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव! । विधाणि तानि नश्यन्ति सर्वाण्येव महीतले । विषमा न धाधन्ते ये तमरण्यनिवासिनः समीपेऽपि । द्वीपि वृकशरभकुञ्जरसिंहधादयो हिंस्वाः । तस्योत्कबलित कृतिनो पवन्ति भयं न चापि समुपस्थितम् । भीष्म- मणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गलित्रितयः । पितृतर्पणे पितृणां तृप्तिर्बहुर्वार्षिकी भवति । शाम्यन्त्युद्भूता- न्यपि सर्पाण्डजाखुवृश्चिकविषाणि । सलिलाग्निवैरि तस्करभयानि भीमानि नश्यन्ति । सैबलयलाहकाभं परुषं पीतप्रमं प्रभाहीनम् । भलिनद्यतिं विवर्ण्णं दूरात् परिवर्जयेत् पाज्ञः । मूल्यं प्रकल्प्यमेषां विबुध- वरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्र- सूतानाम्” गारुडे ७६ अ० । भीष्ममण्यादयोऽप्यत्र ।


शब्दकल्पद्रुमः

भीष्मरत्नं || क्ली (भीष्मं भयानकं रत्नं दुर्लभत्वात् ।)
हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः । तस्योत्पत्त्यादि यथा, — सूत उवाच । “हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पदं सर्व्वदा लभते ॥ गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! । विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले ॥” विषमानाबाधन्ते ये तमरण्यनिवासिनः समी- पेऽपि । द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः ॥ तस्योत्कवलितकृतिनो भवन्ति भयं न चापि समुपस्थितम् । भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः । पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥ शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक- विषाणि । सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् । मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः ॥ मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥” इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः ॥



Correction: