संस्कृत-शब्दकोशः

भीष्मसू भुक्त

भीष्माष्टमी

वाचस्पत्यम्

भीष्माष्टमी ||‍ स्त्री ६ त० । भीष्मस्य देहत्यागदिवसे माघस्य शुक्लाष्टम्याम् । अतस्तस्मिन् दिने सर्ववर्णैस्तस्य तर्पणं का- र्य्यम् यथोक्तं ति० त० मविष्योत्तरे “शुक्लाष्ट- म्यान्तु माघस्य दद्याद् भीष्माय यो जलम् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति” । घबल- धृता स्मृतिः “अष्टम्यान्तु सिते पक्षे भीष्माय सतिलो- दकम् । अन्नञ्च विधिवद्दद्युः सर्वे वर्णा द्विजातयः” । सर्वे इत्युपादानात् ब्राह्मणशूद्रयोरप्यधिकारः । द्वि- जातय इति सम्बोधनम् “ब्राह्मणस्त्वन्यवर्णानां यः करोत्यौर्द्धदेहिकम् । तद्वर्णत्वमसौ याति इह लोके प- रत्र च” इति मरीचिवचनन्तु भीष्मकृत्येतरपरम् । तथा च स्मृतिः । “ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय नो जलम् । संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम!” । असवर्णजलदाननिषेधस्तु प्रकरणादपि भ्रात्रादिविषय इति श्रीदत्तः । “आभिरद्भिवराप्नोतु पुत्रपौत्रोचितां क्रियाम्” इत्याशंसामन्त्रे पुत्रपौत्रीचितामित्यभिधानात् पितृकर्मरीत्या तच्च कर्त्तव्यम् । ब्राह्मणः पितृतर्पणानन्तरं क्षत्रियादिकस्तु तत् पूर्वं तर्पयेत् इति संवत्सरप्रदी- पादयः । अत्र वीज वर्णज्यैष्ठ्यम्” रघु० ।


शब्दकल्पद्रुमः

भीष्माष्टमी || स्त्री (भीष्मस्य अष्टमी भीष्मनाशिका अष्टमी वा ।)
माघशुक्लाष्टमी । तत्र भीष्मस्य तर्पणादिकं कर्त्तव्यम् । यथा, भविष्योत्तरे । “शुक्लाष्टम्यान्तु माघस्य दद्याद्भीष्माय यो जलम् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥” धवलधृता स्मृतिः । “अष्टम्यान्तु सिते पक्षे भीष्माय तु तिलोदकम् । अन्नञ्च विधिवद्दद्युः सर्व्वे वर्णा द्विजातयः ॥” सर्व्वे वर्णा इत्युपादानात् ब्राह्मणशूद्रयोरप्पधि- कारः । द्विजातय इति सम्बोधनम् ॥ स्मृति- रत्नाकरे विष्णुधर्म्मोत्तरम् । “मध्याह्नव्यापिनी ग्राह्या श्राद्धे भीष्माष्टमी तिथिः । स्नाने च तर्पणे दाने ग्राह्या सूर्य्योदयी परा ॥ यदा कदाचित् कुम्भांशं गता सूर्य्योदयी परा । पूर्ब्बस्यामेव कर्त्तव्यं तर्पणं श्राद्धमेव च ॥ यदैकस्मिन् भवेन्मासि कदाचिन्माकरी द्वयम् । भीष्माष्टमी द्बयं वापि तदा ग्राह्या परा तिथिः ॥ व्राह्मणस्त्वन्यवर्णानां यः करोत्यौर्द्ध्वदेहिकम् । तद्वर्णत्वमसौ याति इह लोके परत्र च ॥” इति मरीचिवचनन्तु भीष्मकृत्येतरपरम् ॥ तथा च स्मृतिः । “ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय नो जलम् । संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥ असवर्णजलदाननिषेधस्तु प्रकरणवलादपि भ्रात्रादिविषय इति श्रीदत्तः ॥ तर्पणमन्त्रस्तु । “वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय च । अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥ भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥” इत्याशंसामन्त्रः । पुत्त्रपौत्त्रोचितामित्यभिधानात् पितृकर्म्मरीत्या । ब्राह्मणः पितृतर्पणानन्तरं क्षत्त्रियस्तु तत्पूर्ब्बं तर्पयेत् । इति संवत्सर- प्रदीपादयः ॥ इति तिथ्यादितत्त्वम् ॥



Correction: