वाचस्पत्यम्
भुक्तसमुज्झित || त्रि० पूर्बं भुक्तं पश्चात् समुज्झितं त्यक्तम् । भोजनोत्तरं त्यक्ते अन्नादौ ।
शब्दकल्पद्रुमः
भुक्तसमुज्झितं || त्रि (आदौ भुक्तं पश्चात् समु- ज्झितं परित्यक्तम् । स्नातानुलिप्तवत्समासः ।)
पूर्ब्बं भुक्तं तत् शेषं पश्चात् समुज्झितं त्यक्तम् । तत्पर्य्यायः । फेला २ । इत्यमरः । २ । ९ । ५६ ॥ पिण्डम् ३ फेलिः ४ । इति भरतधृतरभसः ॥