संस्कृत-शब्दकोशः

भुक्तसमुज्झित भुक्तिप्रद

भुक्ति

वाचस्पत्यम्

भुक्ति ||‍ स्त्री भुज—क्तिन् । १ भोजने २ रव्यादिग्रहाणां राश्यं- शादिषु गमने ३ भोगे च “आगमो निष्कलस्तत्र भुक्तिः स्तोकापि यत्र नी” इति स्मृतिः । भुक्तिप्रामाण्य- निर्णयादिकम् आगमशब्दे ६५४ पृ० दृश्यम् । अत्र कश्चिद्विशेषो वीरमित्रोदयग्रन्थे दर्शितो यथा नारदः “स्वागमेन विशुजेन भोगो याति प्रमाण- ताम् । अविशुद्धागमो भोगः प्रामाण्यन्नैव गच्छति । आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत्” । व्यासः “सागमो दीर्घकालश्च विच्छेदापरवोज्झितः । प्रत्यर्थि- सन्निधानश्च परिभोगोऽपि पञ्चधा” । विच्छेदोऽन्तरा यः उपरव आक्रीशस्ताभ्यामुज्झितो रहितः । यद्वा- च्छेदो व्यवधानन्तद्विगमवान् विच्छेदो निरन्तर इति यावत् । अपरवो वर्जनविषयोरवः । मदीयं क्षेत्रादि त्वया किमिति भुज्यते इति प्रतिषेधः अपशब्दस्य वर्जनार्थत्वात् तेनोज्झितः । नारदः “सम्भोगं केवलं यस्तु कीर्त्तयेन्नागमं क्वचित् । भोगच्छलाप- देशेन विज्ञेयः स तु तस्करः । विदामानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यत्र भुक्तन्न तत् स्थिरम्” । दानविक्रयादेरुपभोगसापेक्षस्यैव स्वत्वोत्पादकत्वात् कियान् भोगलवोऽप्यवश्यं तत्रा- पेक्ष्यते इत्याशङ्कायामुपपत्तिरुक्ता विज्ञानेश्वराचार्य्यैः । “दानादेः परस्वत्वापादने परकर्त्तृकस्वीकारापेक्षाऽवश्य- म्भावनीया । स्वीकारश्च त्रिविघो मानसो वाचिकः का- यिकश्च । ममेदमित्यध्यबसायो मानसः । ममेदमित्या- द्यभिलापो वाचिकः । उपादानाभिमर्शनादिरूपेणानेक प्रकारकः कायिकः । तत्र मानसं विना स्वत्वासम्भवात् स त्वावश्यक एव । दानविशेषपुरस्कारेण शब्दप्रयोग- विशेषनियमहस्तादिर्शनादिचेष्टाविशेषनियमाच्चवाचिकक । यिकावप्यावश्यकावित्यवसीयते । तत्र हिरण्यव- स्रादौ दातृकर्त्तृकजलत्यागादनस्तरमेव प्रतिग्रहीतु- रुपादानादिसम्भवात् त्रिविधोऽपि व्यापारः सम्प- द्यते । क्षेत्रादौ तु फलोपभोगं विना कायिकस्वीकारास- म्भवादल्पेनाप्युपभोगेनावश्यम्भवितव्यमन्यथा दानविक्रयादेः सम्पूर्णता न भवत्युत्तरकालीनाङ्गीकाराभावात् । तेन तत्सहितादागमान्तराद्विकल आगमो दुर्बलो भवति । एतच्च द्वयोरागमयोः पूर्वापरभावानवगमे तदपगमे तु स्वल्पभोगविकलोऽपि प्राक्तन एवागमो बलवान् । पूर्वण दानादिना स्वत्वागमे दानद्यन्तरासम्भवात् । न चैवन्तस्य क्षेत्रादेर्मध्यस्थत्वापत्तिः पूर्वस्याम्यापगमादुत्तर- स्वाम्यानुत्षत्तेश्चेति वाच्यम् । प्रतिश्रुतन्यायेनापेक्षणीय खत्वस्य सत्त्वात् पूर्वखाम्यसत्त्वेऽपि राज्ञैव प्रतिगृही- त्यादेंः कापिकरवेकारम्यनिःप्रतिपक्षस्य सम्पादनीयत्वात्”


शब्दकल्पद्रुमः

भुक्तिः || स्त्री (भुज् + क्तिन् ।)
भोजनम् । इति शब्दरत्नावली ॥ भोगः । यथा, —
“भुक्तिस्त्रिपुरुषी सिद्ध्येदपरेषां न संशयः । अनिर्वृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥ आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि । तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥” इति दायतत्त्वम् ॥ (यथा, मनुः । ८ । २५२ । “एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः । पूर्ब्बभुक्त्या च सततमुदकस्यागमेन च ॥”)
रविर्भुक्तिर्यथा, —
“सार्द्धसप्तझसे मेषे वसुः सार्द्धो घटे वृषे । दशैव मकरे द्वन्दे पलानि प्रतिवासरम् । कुलीरसिंहप्रमदातुलालिकार्मुकेषु च । पलान्येकादश तथा रविभुक्तिं प्रचक्षते ॥” इति ज्योतीरत्नमाला ॥ भोगः । दखल इति पारस्यभाषा । स च प्रमाणचतुष्टयान्तर्गतप्रमाणविशेषः । यथा । लिखिताद्यभावे दिव्यमाह याज्ञवल्क्यः । “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति- तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥” इति व्यवहारतत्त्वम् ॥ तद्विवरणं यथा । अथ भुक्तिः । तत्र याज्ञ- वल्क्यः । “पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥” विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणा- सपिण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्ष- निर्वृत्ता स्वत्वहानिः । अत्र लोकव्यवहार- कर्म्मत्वाद्वर्षगणना सावनेन । यथा च विष्णु- धर्म्मोत्तरम् । “सत्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” तत्रैव । “सावने च तथा मासि त्रिंशत् सूर्य्योदयाः स्मृताः ॥” इति ॥ विशेषयति व्यासः । “वर्षाणि विंशतिं यस्य भूर्भक्ता तु परैरिह । सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥” समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दशवर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनु- नारदौ । “यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥” यत्किञ्चिद्धनजातं समक्षमेव प्रीत्यादिव्यति रेकेण परैर्दशवर्षाणि भुज्यमानं स्वामी तूष्णीं प्रेक्षते मा भुज्यतामिति प्रतिषेधं न रचयति नासौ तल्लब्धुं योग्यो भवति तत्र तस्य स्वाम्यं नश्यतीत्यर्थः । गोतमः । अजडापौगण्डधनं दशवर्षभुक्तं परैः सन्निधौ भोक्तुरिति । जडो विकलेन्द्रियः । पौगण्डः पूतोऽनुत्पन्नश्मश्रुर्गण्डः कपोलो यस्य सः । तदाह नारदः —
“बाल आषोडशाद्वर्षात् पौगण्डश्चापि शब्द्यते ॥” अत्रापौगण्डः प्रकीर्त्तित इति कुल्लूकभट्टेन लिखितम् । तत्पाठेऽपि अपौगण्डस्तु पौगण्ड इति द्विरूपकोषादविरोधः । तस्माद्याज- नादिरिव वचनाद्दशवर्षविंशतिवर्षादिकालैर्भोग एव स्वत्वं जनयति । यथा कालप्राप्तिवशेन बीजमङ्कुरं जनयति तरवश्च कुसुममिति । स्वामिना चापरित्यक्तेऽपि शास्त्रोक्तकालीन- भोगात् स्वाम्यमन्यस्य भवति । यथा जयेन राज्ञः परराष्ट्रधन इति । एवमेव श्रीकरवालो- कजोग्लोकभबदेवभट्टशूलपाणिकुल्लूकभट्टचण्डेश्व- रनव्यवर्द्धमानोपाध्यायप्रभृतयः ॥ व्यवहारो- ऽप्येतादृगेव । एतद्विरुद्धवचनान्यन्यथा व्याख्ये- यानि । तत्रोपेक्षया स्वत्वहानिं भुक्त्या च स्वत्व- माह नारदः —
“भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते । समक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥” व्यक्तमाह बृहस्पतिः —
“स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।” उपेक्षया क्षमया । तत्कारणञ्च स्वामिनः सुशीलत्वमहेच्छत्वदयालुत्वादि । एवञ्च विंशति- वर्षात् पूर्ब्बं स्वकृतिसाध्यकर्षणपालनाद्यैरुत्- पन्नद्रव्य एव स्वत्वम् । एवं दशवर्षात् पूर्ब्बं स्वकृतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धादौ एव स्वत्वम् । तत्तत्कालपरतस्तु भूमौ गवादिधने च स्वत्वमिति । पूर्ब्बं तत्तन्नाशकभोगे तु चौर्य्य- दोषो भवत्येव ॥ * ॥
भोगे तु स्वत्वहानिमा- ध्यादीनां व्यावर्त्तयति पश्यतोऽब्रुवत इत्यभिधाय याज्ञवल्क्यः —
“आधिसीमोपनिःक्षेपजडबालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥” आधिर्बन्धकद्रव्यम् । उपनिःक्षेपः । वासनस्थमनाख्याय समुद्रं यन्निधीयते ॥” इति नारदोक्तेः ॥ वासनस्थं निःक्षेपाधारभूतसम्पुटादिस्थम् । समुद्रं ग्रन्थ्यादियुतम् । जडो बुद्धिविकलः । बालोऽप्राप्तषोडशवर्षः । उपनिधिः प्रीत्या भोगार्थमर्पितः । ततश्च आध्यादिभिर्जडादि- धनैश्च विना अन्यानि धनानि उक्तभोगकालेन स्वामिनो नश्यन्ति एतानि तु स्वामिनो न नश्यन्ति न वा भोक्तुर्भवन्ति ॥ * ॥
मिताक्षरायां स्मृतिः —
“द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया । भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं न च साक्षिणः ॥” याज्ञवल्क्यः । “आगमो ह्यधिको भोगाद्विना पूर्ब्बक्रमागतात् । नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र नो ॥ आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता ॥” भूम्यादावागमः पूर्ब्बपुरुषक्रमादागतभोगाद्- बलवान् । अतः क्रमागतभोग आगमाद्वलवान् । तथा च बृहस्पतिः —
“अनुमानाद्गुरुः साक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥” त्रिपुरुषभोगमाह व्यासः —
“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तम् । तौ विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः ॥ पिता पितामहो यस्य जीवेच्च प्रषितामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥” आगमोऽपि बलवान्न भवति यत्र स्तोकापि भुक्तिर्नास्ति । तथा च नारदः । “विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥” इति दीपकलिका ॥ यत्र वादिन्यौ स्वस्वागमबलप्रवृत्तौ आगमयोश्च पूर्ब्बापरभावो न निश्चीयते तत्र यस्य भुक्ति- स्तस्यागमो बलीयान् न त्वन्यस्येत्यर्थ इति मिता- क्षरा ॥ अर्थात् यत्रागमपौर्ब्बापर्य्यनिश्चयस्तत्र । “सर्व्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया । आधौ प्रतिग्रहे क्रीते पूर्ब्बा तु बलवत्तरा ॥” इति याज्ञवल्क्यवचनान्निर्णयः ॥ आगमस्त्विति आ सम्यग्गम्यते प्राप्यते स्वं भवति येन क्रयादिना स आगम इति व्यवहार- मातृका ॥ आगमः साक्षिपत्रादिकमिति याज्ञ- वल्क्यदीपकलिका ॥ आगमो धनोपार्ज्जनोपायः क्रयादिरिति मैथिलाः ॥ तत्रान्येनाभियुक्त आगमकर्त्ता तत्कूटतामुद्धरेत्तत्पुत्त्रपौत्त्रौ नाग- ममुद्धरेतां किन्तु भुक्तिरेव तत्र प्रमाणम् । विशे- षयति बृहस्पतिः । “आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि । तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥” इति शूलपाणिधृतम् ॥ तत्पुत्त्रादौ न किञ्चनेति मैथिलधृतम् ॥ आहर्त्ता अर्जनकर्त्ता । अत्र पुत्त्रस्य भुक्तिशोधनमात्रम् । भुक्तिशोधनमाहतुर्व्यासकात्यायनौ । “सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः । प्रत्यर्थिसन्निधानञ्च पञ्चाङ्गो भोग इष्यते ॥” प्रमाणमिति शेषः । सागमः क्रयादियुक्तः । एष च भूमिविषयकविंशतिवर्षधनविषयकदश- वर्षान्यूनकालभोगपरः । योऽभिभुक्त इति यो भोगे क्रियमाणे परेणाभियुक्तः परेतो मृतः स्यान्नागमसुद्धृतवान् तदा तत्पुत्त्रादिरेव तमु- द्धरेत् । तथाह नारदः । “अथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्त्तयेत् ॥ भोगः केवलभोगः । तथा च स एव । आदौ तु कारणं दानं पश्चाद्भुक्तिस्तु सागमेति । एष स विवादभोगः षष्ट्यब्देतरपरः । तथाविध- भोगस्यागमं विनापि प्रामाण्यात् । तथा च व्यासः । “वर्षाणि विंशतिं भुक्ता स्वामिनाव्याहता सती । भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी ॥ त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगमः ॥” एतद्वचनमसमक्षभोगविषयकमिति समक्षविंश- तिवर्षभोगविषयकवचनेनाविरुद्धम् । एतादृक्- स्मृत्युक्तकाश एव कात्यायनः । “स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्त्ते त्वागमाभावात् क्रमात्त्रिपुरुषागता ॥” षष्टिवर्षैकपुरुषभुक्तौ त्रिपुरुषभुक्तिव्यपदेशस्य फलमाह न तत्रेत्यादि । अतएव नारदः । “अन्यायेन तु यद्भुक्तं पित्रा पूर्ब्बतरैस्त्रिभिः । न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतम् ॥” अन्यायेनेत्यत्रानागममिति शूलपाणिधृतपाठः । तुरप्यर्थः । पित्रा सह पितरमादा त्रिभि- रित्यर्थः । यत्तु । “अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेदवनीपतिः ॥” इति दण्डविधायकव्यासवचनं तद्धर्म्मशास्त्रविरो- धात् न मुख्यार्थपरम् । तदाह स एव । “यत्र विप्रतिपत्तिः स्याद्धर्म्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रार्थमुत्सृज्य धर्म्मशास्त्रार्थमाचरेत् ॥” एवमेव शूलपाणिः । वस्तुतस्तु अनागममिति दण्डविधायकवचनं स्त्रीधननरेन्द्रधनपरम् । “स्त्रीधनञ्च नरेन्द्राणां न कदाचन जीर्य्यति । अनागमं भुज्यमानमपि वर्षशतैरपि ॥” इति स्वत्वनिषेधकनारदवचनैकवाक्यत्वात् । यत्र विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदा- हरणम् । यत्रैकस्य जयेऽवधार्य्यमाणे मित्र- लब्धिरपरस्य जयेऽवधार्य्यमाणे धनलब्धिस्तत्र । “हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्ताविति वेदविदां मतम् ॥” इति याज्ञवल्क्योक्तार्थशास्त्रमुत्सृज्य क्रोध- लोभविवर्ज्जित इति धर्म्मशास्त्रमवलम्ब्य व्यव- हारं पश्येत् । अतएव । “सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः ॥” इति कात्यायनोक्तमिति । भवदेवस्तु व्यासवच- नन्तु प्रतिवादिनोऽसन्निधाने पुरुषैकद्वयभोगा- भिप्रायं त्रैपुरुषिकभोगस्य तत्रापि प्रमाणत्वा- दित्याहुः ॥ अथ भुक्तिस्वत्वापवादः । तत्र बृहस्पतिः । “भुक्तिस्त्रैपुरुषी सिद्ध्येदपरेषां न संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥ अस्वामिना च यद्भुक्तं गृहक्षेत्रापणादिकम् ॥ सुहृद्वन्धुसकुल्यस्य न तद्भोगेव हीयते ॥ विवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च । सुदीर्घेणापि कालेन तेषां तत्तु न सिद्ध्यति ॥” आपणो विक्रयस्थानम् । विवाह्यो जामाता । इति च व्यवहारतत्त्वम् ॥



Correction: