संस्कृत-शब्दकोशः

भुग्न भुजकोटर

भुज

वाचस्पत्यम्

भुज ||‍ त्रि० भुज + क । १ भोगकर्त्तरि २ कुटिलीभूते च ।


वाचस्पत्यम्

भुज ||‍ पुंस्त्री० भुज्यतेऽनेन भुज—घञर्थे करणे क । १ बाहौ २ करे मेदि० । लीलावत्यादौ त्रिकोणचतुष्कोणादिक्षेत्र- प्रसिद्धे क्षेत्रांशभेदे “तथायते तद्भुजकोटिघातः” इति लीलावती । क्षेत्रशब्दे दृश्यम् ।


वाचस्पत्यम्

भुज ||‍ भक्षणे भोगे च आ० पालने पर० सक० रुधा० अनिट् । भुङ्क्तेऽन्नम् । अभौक्षीत् । भूमिं भुनक्ति पालयति । “दिर्व सरुत्वानिव भोक्ष्यते महीम्” रघुः । भुक्तः । उपसर्गपूर्तस्तु तत्तदुपसर्गद्योत्ययुक्तभोगादौ । भोगश्च सुखदुःखाद्यनुवः सुखं दुःखं वा भुङ्क्ते सुखादिकमनु- भवतीत्यर्थः ।


वाचस्पत्यम्

भुज ||‍ भोटने तु० प० सक० अनिट । भुजति अभौक्षीत् । क्त ओदित् भुग्नः ।


शब्दकल्पद्रुमः

भुज || ओ श औ वक्रणे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-अनिट् ।)
वक्रणमिति वक्रं करोतीति ञौ रूपम् । ओ, भुग्नः । श, भुजति लतां वायुः । औ, भोक्ता । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

भुज || ध औ त्राणे । भक्षे । इति कविकल्पद्रुमः ॥ (रुधा०-पर०-सक०-अनिट् ।)
ध, भुनक्ति । औ, अभौक्षीत् । त्राणं पालनम् उपभोगश्च तस्मात् पालने परस्मैपदम् । इति बोध्यम् । भुनक्ति पृव्यिवीं राजा पालयतीत्यर्थः । उप- भोगे तु वृद्धो जनो दुःखशतानि भुङ्क्ते इति । दिवं मरुत्वानिव भोक्ष्यते महीमिति रघुः । एवं सुखमुपभुङ्क्ते इत्यादि च बोध्यम् । भुजोऽ- शने इत्यत्र भक्षणमात्रस्य ग्रहणेऽपि उपभोगस्य भक्षणजन्यतृप्तिजनकत्वविवक्षया सिद्धिरिति विद्यानिवासः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भुजः || पुं स्त्री, (भुजति वक्रो भवतीति । भुज + “इगुपघज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, भुज्यतेऽनेनेति । भुज + “हलश्चेति ।” ३ । ३ । १२१ । इति घञ् । इत्यत्र काशिकोक्तेः घञ् । “भुजन्युब्जौ पाण्युपतापयोः ।” ७ । ३ । ६१ । इति घञि गुणाभावः कुत्वाभावश्च निपा- त्यते ।)
तत्पर्य्यायः । बाहुः २ प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० ॥ बाहः ५ वाहा ६ भुजा ७ दोषः ८ दोषा ९ । इत्यमर- टीकायां भरतः ॥ करः १० । इति मेदिनी । जे, १३ ॥ (यथा, रघुः । २ । ७४ । “भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥”)
तस्य शुभाशुभलक्षणम् यथा, —
“कक्षा चाश्वदला श्रेष्ठा सुगन्धिन्यूर्द्धरोमिका । अन्यथा अर्थहीनानामसौ निःस्वस्य रोमशौ ॥ निर्म्मांसौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥ निःस्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकरप्रभौ ।” इति गारुडे ६६ अध्यायः ॥ (हस्तिशुण्डः । यथा, महाभारते । ३ । २७० । २१ । “नकुलस्तस्य नागस्य समीपपरिवर्त्तिनः । सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥”)
ग्रहस्पष्टीकरणार्थं राशित्रयादूनकेन्द्रग्रहादिः । राशित्रयादधिकनवपर्य्यन्तषडन्तरितावशेषः । नवराशिभ्योऽधिकं चेत् तदा द्वादशराशिभ्यः शोध्यश्च भुजः स्यात् । यथा, —
“दोस्त्रिभोनं त्रिभोर्द्ध्वं विशेष्यं रसै- श्चक्रतोऽङ्काधिकं स्याद्भुजोनं त्रिभम् । कोटिरेकैककं त्रित्रिभैः स्यात् पदं सूर्य्यमन्दोच्चमष्टाद्रयोऽंशा भवेत् ॥” इति ग्रहलाघवम् ॥ क्षेत्रस्य परिमाणविशेषः । यथा, —
“कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिः । कोटिं दोः कर्णतः कोटिश्रुतिभ्याञ्च भुजं वद ॥ इष्टो बाहुर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरो बाहुः । त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः ॥ तत्कृत्योर्योगपदं कर्णः दोः कर्णवर्गयोर्विवरात् । मूलं कोटिः तच्छ्रुतिकृत्योरन्तरात् पदं बाहुः ॥” इति लीलावत्यां क्षेत्रव्यवहारः ॥



Correction: