संस्कृत-शब्दकोशः

भुजकोटर भुजगदारण

भुजग

वाचस्पत्यम्

भुजग ||‍ पुंस्त्री० भुज—वक्रणे क भुजः कुटिलीभवन् सन् गच्छति गम—ड । १ सर्पे अमरः स्त्रियां ङीष् । २ अश्लेषानक्षत्रे ज्यो० त० । तस्य तद्देवताकत्वात् तथात्वम् । अश्लेषाशबदे दृश्यम् ।


शब्दकल्पद्रुमः

भुजगः || पुं, (भुजं वक्रं गच्छतीति । गम् + डः । ३ । २ । ३८ । इत्यत्र “खच्च डिद्वाच्यः ।” वार्त्तिकोक्तेः डित् । ततः टिलोपः ।)
सर्पः । इत्यमरः । १ । ८ । ६ ॥ (यथा, मेघदूते । ६२ । “तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता । क्रोडाशैले यदि च विचरेत् पादचारेण गौरी ॥”)



Correction: