वाचस्पत्यम्
भुजगाशन || पु० भुजगान् अश्नाति अश—ल्यु । गरुडे त्रिका० भुजगभक्षकादयोऽप्यत्र ।
शब्दकल्पद्रुमः
भुजगाशनः || पुं, (भुजगमश्नातीति । अश + ल्युः । भुजगः अशनं यस्येति वा ।) गरुडः । इति त्रिकाण्डशेषः ॥