संस्कृत-शब्दकोशः

भुजगाशन भुजङ्गघातिनी

भुजङ्ग

वाचस्पत्यम्

भुजङ्ग ||‍ पुंस्त्री० भुजः सन् गच्छति गम—खच् मुम् डिच्च । १ सर्गे स्त्रियां ङीष् २ जारे च पु० अमरः । ३ अश्लेषानक्षत्रे पु० ज्या० त०


शब्दकल्पद्रुमः

भुजङ्गः || पुं, (भुजं वक्रं गच्छतीति । गम + खच् । “खच्च डिद्वाच्य” इति वार्त्तिं डित्त्वपक्षे टिलोपः ।)
सर्पः । (यथा, रघुः । ९ । ७९ । “आक्रान्तपूर्ब्बमिव मुक्तविषं भुजङ्गं प्रोवाच कोशलपतिः प्रथमापराद्धः ॥”)
षिड्गः । इत्यमरः । १ । ८ । ६ । मेदिनी च ॥ (सीसम् । तद्यथा, —
“सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥” नागनामकम् । नागः भुजङ्ग इत्यादि ।)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अपरञ्च तदर्थे । “त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ॥ शुरतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम् । अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ॥” इति वाभटे उत्तरतन्त्रे त्रयोदशेऽध्याये ॥)



Correction: