वाचस्पत्यम्
भुजङ्गघातिनी || स्त्री ६ त० । भुजङ्गं तद्विषं हन्ति—हन णिनि ङीप् । सर्पाक्षीलतायाम् राजनि० ।
शब्दकल्पद्रुमः
भुजङ्गघातिनी || स्त्री (भुजङ्गं सर्पं तद्विषं वा हन्तीति । हन + णिनिः । स्त्रियां ङीप् ।)
वृक्षविशेषः । कङ्कालिका इति ख्यातः । तत्- पर्य्यायः । सूरिः २ सर्पाक्षी ३ क्षुत्करी ४ स्पृहा ५ । इति शब्दचन्द्रिका ॥ सर्पनाशिनी च ॥