संस्कृत-शब्दकोशः

भुजङ्गपुष्प भुजङ्गभुज्

भुजङ्गप्रयात

वाचस्पत्यम्

भुजङ्गप्रयात ||‍ न० “भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” वृ० र० उक्ते द्वादशाक्षरपादके छन्दोभेदे ।


शब्दकल्पद्रुमः

भुजङ्गप्रयातं || क्ली (भुजङ्गवत्प्रयातं गतिरिव भङ्गीमान् शब्दविन्यासो यस्य ।)
द्वादशाक्षर- पादच्छन्दः । यथा, कालिदासकृतश्रुतबोधे । “यदाद्यञ्चतुर्थन्तथा सप्तमञ्चेत्- तथैवाक्षरं ह्रस्वमेकादशाद्यम् । शरच्चन्द्रविद्बेषिवक्त्रारविन्दे तदुक्तं कवीन्द्रेर्भुजङ्गप्रयातम् ॥” (अधिकन्तु छन्दःशब्दे ज्ञातव्यम् ।)



Correction: