वाचस्पत्यम्
भुजङ्गभुज् || पु० भुजङ्गं भुङ्क्ते भुज—क्विप् ६ त० । १ गरुडे शब्दर० २ मयूरे अमरः ।
शब्दकल्पद्रुमः
भुजङ्गभुक् || [ज्] पुं, (भुजङ्गं भुङ्क्ते इति । भुज् + क्विप् ।)
गरुडः । इति शब्दरत्नावली ॥ मयूरः । इत्यमरः । २ । ५ । ३० ॥ (मयूरार्थे पर्य्यायो यथा, —
“मयूरश्चन्द्रकी केकी मेघरावो भुजङ्गभुक् । शिखी शिखाबलो वर्ही शिखण्डी नीलकण्ठकः ॥ शुक्लोपाङ्गः कलापी च मेघनादः कलाप्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)