वाचस्पत्यम्
भुजङ्गाक्षी || स्त्री भुजङ्गस्येवाक्षि पुष्पं यस्याः षच् समा० ङीष् । रास्नायाम् अमरः ।
शब्दकल्पद्रुमः
भुजङ्गाक्षी || स्त्री (भुजङ्गस्य अक्षीव पुष्पं यस्याः । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् । गौरादित्यात् ङीष् ।)
रास्ना । इत्यमरः । २ । ४ । ११५ ॥ (रास्ना मेदनाइ इति लोके । तथास्याः पर्य्यायान्तरम् । “नाकुली सरसा नागसुगन्धा गन्धनाकुली । नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)