संस्कृत-शब्दकोशः

भुजङ्गेश भुजफल

भुजज्या

वाचस्पत्यम्

भुजज्या ||‍ स्त्री सू० सि० उक्तायाम् त्रिकोणक्षेत्रस्य भुज जीवायाम् “ग्रहं संशोध्य भन्दोत् तथा शीघ्राद्विशोध्य च । शेषं केन्द्रपदं तस्माद्भुजज्या फोटिरेव च” सू० सि० । “ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीयराश्या- दिकमन्दोच्चभोगात् संशोध्योनीकृत्य शीघ्रात् प्रागानीत राश्यादिशीघ्रोच्चात् । चः समुच्चये । ऊनीकृत्य शेषं राश्यादिकं तथोच्चसम्बन्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम् । शीघ्रोच्चाद्वीनो ग्रहः शीघ्रकेन्द्रं भवती- त्यर्थः । तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं च पदं ज्ञेयम् । त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम् । ततः षड्राश्यन्तर्गतं चेत् त्र्यूनं केन्द्रं द्वितीयं समं पदम् । ततो नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम् । ततो नवोनं चतुर्थं पदं सममित्यर्थ । तस्मात् पदा- द्भुजस्य ज्या कोटिः कोटेर्ज्या च” रङ्ग० । तदानयनं यथा “गताद्भुजज्या विषमे गम्यात् कोटिः पदे मवेत् । युग्मे तु गम्याद्बाहुज्य कोटिज्या तु गताद्भवेत्” सू० सि० । “विषमे परे यताद्ग्रहस्य पदादितो यद्गतं राशिवि- भागात्मकं प्राग्ज्ञातं तस्मादित्यर्थः । मुजज्या स्यात् । गम्याद्गतोनं त्रिभं ग्रहात् पादान्तावधिकमेष्यम् । तस्मात् कोटिः कोटिज्या स्यात् । युग्मे समे तुकारात् पदे एष्याद्भुजज्या गतात् कोटिज्या स्यात् । तुकारो विशेषद्योतकः । एकस्मादेवोक्तरीत्या द्वयं साधितम्” रङ्ग० ।



Correction: