संस्कृत-शब्दकोशः

भुजान्तर भुजिङ्ग

भुजि

वाचस्पत्यम्

भुजि ||‍ पु० भुज—धातुनिर्देशे इक् । १ भुजधातौ भुज—इन् किच्च । २ वह्नौ उणादि० तस्य सर्वभक्षकत्वात् तथात्वम् ।


शब्दकल्पद्रुमः

भुजिः || पुं, (भुनक्ति भुङ्क्ते वा सर्व्वानिति । भुज + “भुजेः किच्च ।” उणा० ४ । १४१ । इति इः । स च कित् । सर्व्वभक्षकत्वादस्य तथा- त्वम् ।)
वह्निः । इत्युणादिकोषः ॥ (भुज + भावे इः । भोगः । यथा, ऋग्वेदे । ८ । ९१ । ६ । “आसवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥” “सवितुः प्रेरकस्य देवस्य सवं यथा प्रसवमिव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्र वाससमग्निं आहुवे आह्वयामि ।” इति तद्भाष्ये सायनः ॥ * ॥
भोक्तरि, त्रि । यथा, ॠग्वेदे । ८ । ८ । २ । “भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥” “हे भुजी हविषां भोक्तारौ ।” इति तद्भाष्ये सायनः ॥)



Correction: