संस्कृत-शब्दकोशः

भुजिङ्ग भुजिष्या

भुजिष्य

वाचस्पत्यम्

भुजिष्य ||‍ पु० भुज—किष्यन् । १ दासे २ रोगे ३ स्वतन्त्रे ४ हस्त- सूत्रे च । ५ दास्यां ६ वेश्यायाञ्च स्त्री मेदि० ।


शब्दकल्पद्रुमः

भुजिष्यः || पुं, (भुङ्क्ते स्वाम्युच्छिष्टमिति भुज्यते इति वा भुज + “रुचिभुजिभ्यां किष्यन् ।” उणा० ४ । १७८ । इति किष्यन् ।)
स्वतन्त्रः । हस्तसूत्रम् । दासः । इति मेदिनी । ये, ९८ ॥ (यथा, माधे । १५ । ६३ । “किमहो नृपाः समममीभि- रुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥”)
रोगः । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: