शब्दकल्पद्रुमः
भुजिष्या || स्त्री (भुजिष्य + टाप् ।) दासी । (यथा, रघुः । ६ । ५३ । “अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥”) गणिका । इति मेदिनी । ये, ९९ ॥