संस्कृत-शब्दकोशः

भुजिष्या भुञ्जत्

भुज्यु

वाचस्पत्यम्

भुज्यु ||‍ पु० भुज—युच् न अनादेशः । १ भाजने उज्ज्वल० । २ भोजने उणा० । ३ अग्नौ संक्षिप्त० ४ यज्ञे यजु० १८४२ वेददी० “यज्ञो हि सर्वाणि मूतानि पालयतीति” श्रुतेः सर्वलोकपालकत्वात्तस्य तथात्वम् ।


शब्दकल्पद्रुमः

भुज्युः || पुं, (भुज्यतेऽत्रेति । भुज भक्षणे + “भुजि मृङ्भ्यां युक्त्युकौ ।” उणा० ३ । २१ । इति युक् ।)
भाजनम् । इत्युणादिकोषः । २ । २०३ ॥ भाजनम् । (भुङ्क्ते सर्व्वानिति । भुज + कर्त्तरि युक् ।)
अग्निः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (स्वनामख्यातराजविशेषः । यथा, ऋग्- वेदे । ४ । २७ । ४ । “ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधिष्णोः ॥” भुनक्ति पालयतीति । भुज पालने + युक् । रक्षके, त्रि । यथा, ऋग्वेदे । ८ । २२ । २ । “पूर्ब्बापुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्ब्बम् ॥” “भुज्युं भुजपालने सर्व्वस्य रक्षकम् ॥” इति तद्भाष्ये सायनः ॥)



Correction: