वाचस्पत्यम्
भुरिज् || स्त्री “भृञ उच्च” उणा० भृ—इजि किच्च धातोरुका- रादेशः । वसुन्धरायाम् उज्ज्वल० । २ बाह्वोः द्वि० व० निघण्टुः ।
शब्दकल्पद्रुमः
भुरिक् || [ज्] स्त्री, (भरति सर्व्वं धरतीति । भृञ् + “भृञ उच्च ।” उणा० २ । ७२ । इति इजिः । धातोरुकारान्तादेशः ।)
पृथिवी । इत्युणादिकोषः ॥ (द्विवचनान्तत्वे । बाहू । द्यावापृथिव्यौ च । यथा, ऋग्वेदे । ४ । २ । १४ । “रथं न क्रन्तो अपसा भुरिजो रृतं येमुः सुध्य आशुषाणाः ॥” “भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान् वेति भुरिजौ बाहू तयोः । यद्वा, भुरिजोः देवान् मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।” इति तद्भाष्ये सायनः ॥)