संस्कृत-शब्दकोशः

भुवन भुवनकोष

भुवनकोश

शब्दकल्पद्रुमः

भुवनकोश is an alternate of भुवनकोष. भुवनको(श)ष || पुं, (भुवनस्य कोष इव ।)
भूगोलः । (अस्य विवरणं श्रीभागवते पञ्चमस्कन्धे । १६ । १७ । १८ । अध्याये द्रष्टव्यम् ॥ तथाच । “जम्बुप्लक्षशाल्मलकुशक्रौञ्च- शाकपुष्करसंज्ञाः सप्त द्बीपाः । लक्षयोजनप्रमाणाज्जम्वु- द्वीपादुत्तरोत्तरद्विगुणाः ॥ १ ॥ लवणसुरासर्पिर्दधिदुग्धस्वच्छोदकसंज्ञैः पर- स्परद्विगुणैः । सप्तसमुद्रैर्बलयाकारैस्ते द्वीपाः परिधिष्ठिताः ॥ योऽसौ मनुपुत्त्रः प्रियव्रतो नाम स सप्तद्वीपा- धिपतिर्बभूव । तस्य अग्नीध्रादयो दश पुत्त्रा बभूवुः ॥ ३ ॥ त्रयः प्रव्रजिताः । शिष्टानां सप्तानां सप्त द्वीपाः पित्रा दत्ताः । तत्र जम्बुद्बीपाधि- पतेराग्नीध्रस्य नव पुत्त्रा जाताः ॥ ४ ॥ नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः । रम्यो हिरण्मयश्चैव कुरुभद्रश्च केतुमान् ॥ ५ ॥ नववर्षाणि विभज्य पुत्रेभ्यः पित्रा दत्तानि वनं प्रविशता । अग्नीध्रोऽयं हिमाह्वयम् । यस्याधि- पतिर्नाभेः ऋषभः पुत्त्रो बभूव ॥ ६ ॥ ऋषभाद्भरतो भरेतन चिरकालं धर्मेण पालितत्वादिदं भारतं वर्षमभूत् । इलावृतस्य मध्ये मेरुः सुवर्णमय- श्चतुरशीतिसहस्राणि योजनानि तस्योच्छ्रायः । षोडशसहस्रमप्यधस्तादवगाढः तद्द्विगुणो मूल- विस्तारः ॥ ६ ॥ तन्मध्ये ब्रह्मणः पुरी । ऐन्द्र्यामि- न्द्रस्य चामरावती । आग्नेय्यामग्नेस्तेजोवती । याम्यां यमस्य संयमनी । नैरृत्यां निरृतेर्भयं- करी । वारुण्यां वरुणस्य विश्वावती । वायव्यां वायोर्गन्धवती । उदीच्यां सोमस्य विभावरीति नववर्षान्वितं जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदी- भिरन्वितम् ॥ ७ ॥ किंपुरुषादीन्यष्टवर्षाणि पुण्य- वतां भोगस्थानानि साक्षाद्भारतवर्षमेकं कर्म- भूमिश्चातुर्वण्ययुतम् ॥ ८ ॥ तत्रैव कर्म्मभिः स्वर्गं कृतैः प्राप्स्यन्ति मानवाः । मुक्तिश्चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः ॥ ९ ॥ अधोगतिमितो विप्र ! यान्ति वै पापकारिणः । ये पापकारिणस्तान् विद्धि पातालतले नरके कोटिसमन्वितान् ॥ १० ॥ अथ सप्तकुलपर्वताः कथ्यन्ते । माहेन्द्रः । मलयः शुक्तिमान् ऋष्यमृकः सह्यपर्वतः बिन्ध्यः पारियात्रः । इत्येते भारते कुलपर्वताः ॥ ११ ॥ नर्मदासुरसाऋषिकुल्याभी- मरथीकृष्णावेणीचन्द्रभागाताम्रपर्णी इत्येताः सप्त नद्यः गङ्गायमुनागोदावरीतुङ्गभद्राकावेरी- सरयूरित्येता महानद्यः पापध्य्नः ॥ १२ ॥ जम्बुनाम्ना च विख्यातं जम्बुद्वीपमिदं शुभम् । लक्षयोजनविस्तीर्णमिदं श्रेष्ठं तु भारतम् ॥ १३ ॥ अक्षद्वीपादिपुण्या जनपदाः निष्कामा ये स्वध- र्मेण नरसिंहं यजन्ति ते तत्र निवसन्ति अधि- कारक्षयात् मुक्तिं च प्राप्नुवन्ति ॥ १४ ॥ जम्बाद्याः स्वादूदकान्ताः सप्त पयोधयःः । ततः परा हिरण्मयी भूमिः । ततो लोकालोकपर्वतः एष भूर्लोकः ॥ १५ ॥ अस्योपरि अन्तरिक्ष- लोकः खेचराणां रम्यस्तदूर्ध्वं स्वर्गलोकः ॥ १६ ॥ स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोध मे । भारते कृतपुण्यानां देवानामपि चालयम् ॥ १७ ॥ मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिरण्मयः । योजनानां सहस्राणि चतुरशीतिमुच्छ्रितः ॥ १८ ॥ प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः । तावत्प्रमाणा पृथिवी पूर्ब्बतश्च समन्ततः ॥ १९ ॥ तस्य शृङ्गत्रयं मूर्ध्रि स्वर्गो यत्र प्रतिष्ठितः । नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥ २० ॥ मध्यमं पश्चिमं पूर्ब्बं मेरोः शृङ्गाणि त्रीणि वै । मध्यमं स्फाटिकं शृङ्गं वैदूर्यमणिकामयम् ॥ २१ ॥ इन्द्रनीलमयं पूर्ब्बं माणिक्यं पश्चिमं स्मृतम् । योजनानां सहस्राणि नियुतानि चतुर्दश ॥ २२ ॥ उच्छ्रितं मध्यमं शृङ्गं स्वर्गो यत्र त्रिविष्टपः । अप्रभान्तरितं शृङ्गं मूर्ध्नि छत्राकृतिस्थितम् । पूर्व्वमुत्तरशृङ्गाणां अन्तरं मध्यमस्य च । त्रिविष्टपो नाकपृष्ठे ह्यप्सराः सन्ति निर्वृताः ॥ २४ ॥ आनन्दोऽथ प्रमोदश्च स्वर्गशृङ्गे तु मध्यमे । श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ॥ २५ ॥ आह्लादः स्वर्गराजा वै स्वर्गशृङ्गे तु पश्चिमे । निर्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः ॥ २६ ॥ स्वर्गाश्चैव द्बिजश्रेष्ठ ! पूर्ब्बशृङ्गे समास्थिताः । एकविंशानि स्वर्गा वै निविष्टा मेरुमूर्द्धनि ॥ २७ ॥ अहिंसादानकर्तारो यज्ञानां तपसां तथा । तत्तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ॥ २८ ॥ जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे । भृगुप्रपाते सौख्यं च रणं चैवास्य निर्मलम् ॥ २९ ॥ अनाशके तु संन्यासे मृतो गच्छेत्त्रिविष्टपम् । क्रतुयाजी नाकपृष्ठं अग्निहोत्री च निर्वृ- तिम् ॥ ३० ॥ तडागकूपकर्त्ता च लभते पौष्टिकं द्विजः । सुवर्णदायी सौभाग्यं लभन् स्वर्गतपःफलम् ॥ ३१ ॥ शीतकाले महावह्निं प्रज्वालयति यो नरः । सर्व्वसत्त्वहितार्थाय स्वर्गं सोप्सरसं लभेत् ॥ ३२ ॥ हिरण्यगोप्रदाने हि निरहङ्कारमाप्नुयात् । भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥ ३३ ॥ रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः । अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥ ३४ ॥ द्विजेभ्यस्तर्पणं कृत्वा दत्वा वस्त्राणि भक्तितः । श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचते ॥ ३५ ॥ कपिलागोप्रदानेन परमार्थे महीयते । गोवृषस्य प्रदानेन स्वर्गं मन्मथमाप्नुयात् ॥ ३६ ॥ माधमासे सरित्स्नायी तिलधेनुप्रदस्तथा ॥ छत्रोपानहदाता च स्वर्गं यात्युपशोभनम् ॥ ३७ ॥ देवतायतनं कृत्वा द्विजशुश्रूषकस्तथा । तीर्थयात्रापरश्चैव स्वर्गराज्ये महीयते ॥ ३८ ॥ एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः । उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभं लभेत् ॥ २९ ॥ सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः । निर्मलं स्वर्गमाप्नोति यथाभूतहिते रताः ॥ ४० ॥ विद्यादानेन मेधावी निरहङ्कारमाप्नुयात् । येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ ४१ ॥ तत्तत्स्वर्गमवाप्नोति यद्यदिच्छति मानवः । चत्वारि अतिदानानि कन्या गौर्भूः सरखती ॥ ४२ ॥ नरकादुद्धरन्त्येते जपवाहनदोहनात् । यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रय- च्छति ॥ ४३ ॥ संप्राप्य न निवर्त्तेत स्वर्गं शान्तमनामयम् । शृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थितः स्वयम् ॥ ४४ ॥ पूर्ब्बशृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः । अतः परं तु विप्रेन्द्र ! स्वर्गाध्वानमिमं शृणु ॥ ४५ ॥ विमलं विपुलं शुद्धमुपर्य्युपरिसंस्थितम् । प्रथमे तु कुमारस्तु द्बितीये मातरः स्थिताः ॥ ४६ ॥ तृतीये सिद्धगन्धर्वा तुर्य्ये विद्याधरा द्बिज ! पञ्चमे नागराजा च षष्ठे तु विनतासुतः ॥ ४७ ॥ सप्तमे दिव्यपितरो धर्म्मराजस्तथाष्टमे । नवमे तु तथा दक्ष आदित्यो दशमे पथि ॥ ४८ ॥ भूर्लोकाच्छतसाहस्रादूर्द्ध्वं चरति भास्करः । योजनानां सहस्रे द्बे विष्टम्भनसमं ततः ॥ ४९ ॥ त्रिगुणं परिणाहेन सूर्य्यबिम्बं प्रमाणतः । सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा । महेन्द्रस्यामरावत्यां तदा तिष्ठति भास्करः ॥ ५० ॥ मध्याह्ने त्वमरावत्यां यदा भवति भास्करः । तदा संयमने याम्ये तत्रोद्यंस्तु प्रदृश्यते ॥ ५१ ॥ मेरुं प्रदक्षिणं कुर्व्वन् भात्येव सविता सदा । ध्रुवाधारस्तथोत्तिष्ठन् वालिखिल्यादिभिः स्तुतः ॥ ५२ ॥ इति श्रीनरसिंहपुराणे भूवनकोशे त्रिंशो- ध्यायः ॥ ३० ॥)



Correction: