वाचस्पत्यम्
भुवर्लोक || पु० कर्म० । द्विताये लोके ।
शब्दकल्पद्रुमः
भुवर्लोकः || पुं, (भुवश्चासौ लोकश्चेति ।)
भूरादि- सप्तलोकान्तर्गतद्वितीयलोकः । यथा, —
“भूमिसूर्य्यान्तरं यच्च सिद्धादिसुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ! ॥” इति विष्णुपुराणे । २ अंशे ७ अध्यायः ॥ (यथा च भागवते । २ । ५ । ८ । “भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्ल्लोको महात्मनः ॥”)