वाचस्पत्यम्
भूकश्यप || पु० भूमिजातः कश्यप्रस्तदतार । वसुदेवे त्रिका० कश्यपस्य वसुदेवरूपेणावतारकथा च हरिवं० ५६ अ० । “तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः । वमदेव इति ख्यातो गोषु तिष्ठति भूतले” ।
शब्दकल्पद्रुमः
भूकश्यपः || पुं, (भुवि पृथिव्यां कश्यप इव भुवः कश्यप इति वा । “तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः । वसुदेव इति ख्यातो गोधु तिष्ठति भूतले ॥” इति हरिवंशीयवचनेनास्य कश्यपांशसम्भूत- त्वात् तथात्वम् ।)
वसुदेवः । इति त्रिकाण्ड- शेषः ॥