वाचस्पत्यम्
भूगर्भ || पु० भूर्गभेऽस्य । विष्णौ पु० “हिरण्यगर्भो भूगभः” विष्णुस०
शब्दकल्पद्रुमः
भूगर्भः || पुं, भवभूतिः । स च मालतीमाधवादि- नाटककर्त्ता । इति जटाधरः ॥ (भूः सर्व्व- भूताश्रयभूता पृथ्वी गर्भे कुक्षौ यस्येति । विष्णुः । यथा, महाभारते । १३ । १४९ । २१ । “हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥”)