शब्दकल्पद्रुमः
भूच्छायं || क्ली स्त्री, (भुवश्छाया । “विभाषासेना- सुराच्छायानिशानाम् ।” २ । ४ । २५ । इति तत्पुरुषे विभाषया नपुंसकम् । छायाबाहुल्ये तु केवलं क्लीवत्वं) अन्धकारः । इति शब्दमाला ॥