वाचस्पत्यम्
भूजन्तु || पु० भूरिव जन्तुः । नागे हस्तिनि राजनि० ।
शब्दकल्पद्रुमः
भूजन्तुः || पुं, (भुवो जन्तुरिव ।) उपरसविशेषः । इति राजनिर्घण्टः ॥ (विशेषोऽस्य भूनागशब्दे द्रष्टव्यः ॥)