वाचस्पत्यम्
भूत || न० भू—क्त । १ न्याय्ये उचिते पृथिवीजलतेजोबायुगगन- रूपेषु गन्धादिविशेषगुणवत्षु २ द्रव्येषु, ४ सत्ये, यथार्थे वास्तविके “भूतमप्यनुपत्यस्तं हीयते व्यवहारतः” इति स्मृतिः । ५ तत्त्वानुसन्धाने च “छलं निरस्य भूतेन” स्मृतिः । ६ पिशाचादौ पु० ७ कुमारे ८ योगीन्द्रे ९ कृष्णपक्षे १० प्राणिनि च न० । ११ अतीते वृत्ते १२ सदृशे १३ प्राप्ते १४ सत्यार्थे त्रि० । १५ कृष्णचतुर्दर्श्या स्त्री टाप् । भूतत्वं च आत्मान्यत्वे सति विशेषगुणवत्त्वम् न तु जातिः मूर्त्तत्वेन साङ्कर्य्यात् तथाहि भूतत्वाभावबति मनसि मूर्त्तत्वस्य सत्त्वात् मूर्त्तत्वाभाववति गगने भूतत्वस्य सत्त्वात् उभयोः परस्परभावसामानाधिकरण्यम् पृथिव्यादिषु चतुर्षु च भूतत्वमूर्त्तत्वयोरुभयोः सत्त्वात् परस्परसामा- नाधिकरण्यमिति माङ्कर्य्यात् जातिव्याधकता ।
शब्दकल्पद्रुमः
भूतं || क्ली (भू + क्तः ।)
युक्तम् । न्यायः । क्ष्मादिः । पृथिव्यप्तेजोवाय्वाकाशपञ्चकम् । (यथा, मनुः । १२ । १४ । “तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ॥ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥” “स च त्रिविधो वैकारिकस्तैजसो भूतादिरिति । भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चत- न्मात्राण्युत्पद्यन्ते । तद्यथा । शब्दतन्मात्रं स्पर्श- तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र- मिति । तेषां विशेषाः शब्दस्पर्शरूपरसगन्धा- स्तेभ्यो भूतानि व्योमानिलानलजलोर्व्व्यः ।” इति सुश्रुते शारीरस्थाने प्रथमेऽध्याये ।)
ऋतम् । सत्यम् । इत्यमरभरतौ ॥ पिशाचादि । (यथा, श्रीभागवते । ३ । १४ । २१ । “एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥”)
जन्तुः । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा, मनुः । ६ । ८ । “स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समा- हितः । दाता नित्यमनादाता सर्व्वभूतानुकम्पकः ॥” स्थावरजङ्गमात्मकं द्रव्यम् । यथा, मनुः । ८ । ३०६ । “रक्षन् धर्म्मेण भूतानि राजा वध्यांश्च घात- यन् ! यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥”)
वस्तुतत्त्वम् । यथा, —
“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ छलं प्रमादाभिहितम् । निरस्य परित्यज्य । भूतेन वस्तुतत्त्वानुसरणेन । व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्त- मनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कर्त्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायै- स्तथा सति साक्ष्यादिनैरपेक्षेणैव निर्णयो भव- तीति ॥ अथ सर्व्वथापि भूतानुसरणं न शक्यते कर्त्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य्य- इत्यनुकल्पः । यथोक्तम् । भूतच्छलानुसारि- त्वाद्विगतिः समुदाहृता । भूतन्तत्त्वार्थयुक्तं यत् प्रमादाभिहितं छलमिति ॥ तत्र भूतानुसारी व्यवहारो मुख्यः । छलानुसारी त्वनुकल्पः । इति मिताक्षरायां व्यवहाराध्यायः ॥
शब्दकल्पद्रुमः
भूतं || त्रि (भाव्यते स्मेति । “आधृषाद्बेति णिज- भावः । भू + क्तः । भूतिरस्त्यस्येति वा । अर्श- आदित्वात् अच् । अभवदिति वा । भुवो गत्यर्थे इति । भूतार्थे कर्त्तरि क्तः ।)
प्राणी । जन्तुः । (यथा, ऋग्वेदे । ३ । २७ । ९ । “धिया चक्रे वरेण्यो भूतानां गर्भमादधे ॥” यथा च चरके शारीरस्थाने तृतीयेऽध्याये ॥ “भूतानाञ्चतुर्व्विधा योनिर्जराय्वण्डस्वेदोद्भिदः ।”)
अतीतम् । (यथा, कथासरित्सागरे । १ । २४ । “भूतं भवद् भविष्यद् वा किं तत् स्यात् जगति प्रिये । भवती यन्न जानीयादिति शर्व्वोऽप्युवाच ताम् ॥”)
वृत्तम् । (यथा, सुश्रुते चिकित्सितस्थाने । १० अध्याये । “गोशकृद्भूतानां वा यवानां शक्तून् कार- यित्वा ॥”)
समम् । सदृशम् । इत्यमरभरतौ ॥ प्राप्तम् । (यथा, महाभारते । १३ । ३४ । १५ । “यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वैवचः । भूतात्मानो महात्मानस्ते न यान्ति परा- भवम् ॥” “भूतः प्राप्तो वशीकृत आत्मा चित्तं यैस्ते ॥” इति तट्टीकायां नीलकण्ठः ।)
सत्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा शाकु- न्तले । प्रथमाङ्के । “सूत्रधारः । सस्मितम् । आर्य्ये ! कथयामि ते भूतार्थम् ।”)
भूतकालस्य पर्य्यायो यथा । वृत्तम् २ अतीतम् ३ ह्यस्तनम् ४ निभृतम् ५ गतम् ६ । इति राजनिर्घण्टः ॥ उत्तरपदस्थ एव भूतशब्दः समार्थ इति शाब्दिकाः । यथा देवभूतोऽयम् । इति भरतः ॥ (उत्तरपदस्थ भूतशब्दः स्वरूपार्थोऽपि । यथा, मनुः । १ । ५ । “आसीदिदं तमोभूतमप्रज्ञातमलज्ञणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥”)
शब्दकल्पद्रुमः
भूतः || पुं, (भू + कर्त्तरि क्तः ।)
देवयोनिविशेषः । स च अधोमुस्वोर्द्ध्वमुखादिः पिशाचभेदो रुद्रा- नुचरो बालग्रहः । इत्यमरभरतौ ॥ (यथा, मार्कण्डेयपुराणे । ५१ । ५३ । “विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्त्तयेत् । भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”)
कुमारः । इति मेदिनी । ते, ४१ ॥ योगीन्द्रः । इति शब्दरत्नावली ॥ कृष्णचतुर्द्दशी । इति त्रिकाण्डशेषः ॥ * ॥
भूतनाशकौषधम् । यथा, “श्वेतापराजितामूलं पिष्टं तण्डलवारिणा । तेन नस्यप्रदानं स्याद्भूतबृन्दस्य विद्रवम् ॥ अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् । भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः । गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥ गोरोचना मरीचानि पिप्पली सैन्धवं मधु । अञ्जनं कृतमेभिः स्याद् ग्रहभूतहरं शिव ! ॥ अपि च । “वचा त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥ प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ॥ नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥” इति गारुडे १९२ । १९९ अध्यायः ॥ शम्भुगणभूता यथा, —
“हते वराहस्य गणे भर्गमासाद्य ते गणाः । चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥ भूतत्वमभवत्तेषां चतुर्भागवतां तदा । वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥ यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्विधः । यतस्तेभ्योऽधिका यत्नैस्तद्भूतग्राम उच्यते ॥ इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।” इति कालिकापुराणे २९ अध्यायः ॥ (वसुदेवस्य पौरवीगर्भजातद्बादशपुत्त्राणां ज्येष्ठ- तमः । यथा, भागवते । ९ । २४ । ४७ । “पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥”)