संस्कृत-शब्दकोशः

भूत भूतकेश

भूतकला

वाचस्पत्यम्

भूतकला ||‍ स्त्री ६ त० । शा० ति० उक्ते धरादिभूतानामुत्- पादके निवृत्त्याद्ये शक्तिभेदे “धरादिपञ्चभूतानां निवृ- त्त्याद्याः कलाः स्मृताः । निवृत्तिः सुप्रतिष्ठा स्यात् विद्या शान्तिरनन्तरन्तरम् । शान्त्यतीतेति ता ज्ञेया नाददेह- समुद्भवाः” शा० ति० “शक्तिः प्रथमसम्भूता शान्त्य- तीतापदोत्तरा शान्त्यतीतापदाच्छक्तेस्ततः शान्तिपदं क्रमात् । ततो विद्यापदं तस्मात् प्रतिष्ठापदसंग्रहः । निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः परम् । एवमुक्ता स- वासेन सृष्टिरीश्वरनोदिता । आनुलोम्यादथैतेषां प्राति- लोम्वेन संहृतिः । अस्मात् पञ्चपदोद्दिष्टान्न सृष्ट्यन्तर- मिष्यते । कलाभिः पञ्चभिर्व्याप्तं यस्माद्विश्वमिदं जगत्” राघवभट्टधृतवायवीयसंहिता ।



Correction: