संस्कृत-शब्दकोशः

भूतगन्धा भूतघ्न

भूतगुण

वाचस्पत्यम्

भूतगुण ||‍ पु० ६ त० । आकाशादीनां शब्दस्पर्शादिषु विशेष- गुणेषु “शब्दस्पर्शरूप्ररसगन्धा भूतगुणाः स्मृताः” शा० ति० “भूतगुणा भूतविशेषगुणा इत्यर्थः राघवः” । तत्रैव भू- तानामेकैकविशेषगुणा उक्ता यथा “आकाशस्य गुणः शब्दो वाग्नेः स्पर्शः तेजसो रूपं जलस्य रसः भूमेर्गन्धः इति नैयायिकादयः । सांख्यादयस्तु अन्यथाङ्गीचक्रुर्यथोक्त- मीशानसंहितायाम् “शब्दैकगुण आकाशः शब्दस्पर्श- गुणो मरुत् । शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते । शब्दस्पशरूपरसैरापो ज्ञेयाश्चतुर्गुणाः । शब्दस्पर्शरूप- रसगन्धैः पञ्चगुणा मही” ।



Correction: