वाचस्पत्यम्
भूतघ्न || पु० भतं हन्ति हन—टक् । १ भूर्जपत्रे राजनि० तद्धारणे हि बालग्रहमूतादिनिवारणं शास्त्रे प्रसिद्धम् । भूतं प्रकृतं गन्धं हन्ति अधःकरोति । २ लशुने ३ उष्ट्रे च राजनि० । ३ भूतनाशके त्रि० हेमच० । ४ तुलस्यां स्त्री राजनि० ङीप् ।
शब्दकल्पद्रुमः
भूतघ्नः || पुं, (भूतं हन्तीति । हन् + टक् ।)
उष्ट्रः । इति हेमचन्द्रः ॥ लशुनः । भूर्जवृक्षः । इति राजनिर्घण्टः ॥ भूतनाशके त्रि ॥ (यथा, तन्त्रसारे । “भूतघ्नैस्तु विकीणैस्तैर्विद्रुताः क्रूरचेतसः । भूतप्रेतपिशाचाश्च वेताला भैरवादयः ॥”)