वाचस्पत्यम्
भूतपूर्णिमा || स्त्री आश्विनपूर्णिमायाम् शब्दर० ।
शब्दकल्पद्रुमः
भूतपूर्णिमा || स्त्री (भूतानां पूर्णिमा ।) आश्विनी पूर्णिमा । तत्पर्य्यायः ॥ शारदी २ कौमुदी ३ अश्वयुजी ४ शतपर्व्वा ५ रङ्गभूतिः ६ कोजा- गरा ७ । इति शब्दरत्नावली ॥