वाचस्पत्यम्
भूतवर्ण || पु० ६ त० । ध्येये भूतानां श्वेतादिवर्णे यथोक्तं शा० ति० “स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विशदं प्रयः । पीता भूसिः पञ्चभूतान्येकैकाधारतो विदुः” । “स्वच्छं श्वेतं तत्र केषाञ्चिदरूपिद्रव्याणां वर्णकथनमुपा- दानार्थं स्वशास्त्रानुरोधेन” राघवः । भूतदैवते ह्रस्वदीर्घ- सहिते वर्गादिवर्णे च । भूतलिपिशब्दे कुलाकुलचक्र- शब्दे च दृश्यम् ।