संस्कृत-शब्दकोशः

भूतसंप्लव भूतसाधनी

भूतसर्ग

वाचस्पत्यम्

भूतसर्ग ||‍ पु० ६ त० । भूतसृष्टौ स च चतुर्दशविधः यथोक्तं वह्निपु० “ब्राह्म्यं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च । गान्धर्वमथ कौवेररक्षः पैशाचमानुषम् । स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा । चतुर्दशविधं ह्येतद्भूत- सर्गं प्रकीर्त्तितम्” क्लीवत्वमार्षम् ।


शब्दकल्पद्रुमः

भूतसर्गः || पुं, (सृज्यते इति । सृज + भावे घञ् । भूतानां सर्गः ।)
भूतसृष्टिः । (यथा, मार्कण्डेय- पुराणे । ४७ । ३१ । “प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गः म उच्यते ॥”)
“ब्राह्मं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च । गान्धर्व्वमथ कौवेरं रक्षःपैशाचमानुषम् ॥ स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा । चतुर्द्दशविधं ह्येतद्भूतसर्गं प्रकीर्त्तितम् ॥” इति वह्निपुराणोक्तं क्लीवत्वमार्षम् ॥



Correction: